पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ९९२ सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- चक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान्वाऽनूचानानङ्गहीनानूनवाच इति । आपस्तम्बोऽपि-ब्राह्मणानार्षेयानृविजो वृणीत यूनः स्थविरान्वाऽनूचानानूचं. वाचोऽनङ्गहीनानिति । यूनस्तरुणान् । तेषामेव प्रकृतोपयोगात् । अत एव न जौद्ध- श्याः(नातिवृद्धाः) । न च बालाः । त्रिंशद्वर्षांतरं षष्टिवर्षपर्यन्तं स्थविरत्वम् । एनाभ्यां कर्मकरणसामर्थ्य लक्ष्यते । बालवृद्धयोः क्रियाम् पाटवं न स्यादिति युवस्थविरग्रहणम् । नाननूचानमृत्विजं वृणीत इत्यनेनैव सिद्धे पुनर्वचनम् , अन चानो द्विविधो वेदानूचानः कर्मानूचानश्च, तत्र केवलवेदानू चानोऽशक्तेरनिषिद्धः, केवलकर्मानूचानस्य शक्त. स्वात्प्राप्तिः स्यात्सा मा भूर्तिक तु द्विविधानूचानत्वरहितस्यापि निषेधो यथा स्यादित्ये. तदर्थम् । मार्गादनपगतोऽनूचान इति भरद्वाजः । एतेनोभयविधानूचानस्यापि संग्रहः प्रदर्शितः। ऊर्ध्ववाच उरः कण्ठः शिर इतित्रिस्थान करणसमर्था वान्येषां त उवाच:। अनङ्गहीना अविकलाङ्गाः । आश्वलायनः-ऋत्विनो वृणीतेऽन्यूनातिरिक्ताङ्गान्ये मातृतः पितृतश्चेति यथोक्तं पुरस्ताद्यून ऋत्विनो वृणीत इत्येक इति । यथोक्तं पुरस्ता. दित्यनेन प्रदर्शित सूत्रं तु ये मातृतः पितृतश्च दश पुरुषसमनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्ममिषामुभयतो नाबाह्मण्यं निनयेयुः पितृत इत्येक इति । लाट्यायनद्राह्मायणावपि- ऋत्विगायोऽनूचानः साधुचरणो वागम्यन्यूनाङ्गोऽनतिरिक्ताङ्गो द्वयसतोऽनतिक- ष्णोऽनतिश्वेत इति । अतो यजन्तीत्युविजः । तथा च निरुक्तम्-ऋत्विङ्नामान्युत्त- राण्यष्टावृत्तिक्कस्मादीरण अग्यष्टा भवतीति शाकपूणियाजी भवतीति वेति । छन्दोगश्रुतौ प्रकारान्तरेणापि निर्वचनमुक्तम्-प्रजापतिर कामयत बहु स्यां प्रजा- येयेति स आत्मन्यत्व्यमपश्यत त ऋत्विजोऽसृजत यहत्वियाइसृनत । तस्विज ऋत्वि- क्वमिति । ऋत्विग्दधृगित्यनेन अरविनशब्दो निष्पाद्यते । आर्षेयानूचानौ व्याख्यातौ । साविति प्रशंसायाम् । चरणशब्देन कर्म । तथा च साधुचरण इत्यस्य प्रशस्तक- त्ययों मवति । वाग्मी वक्तुं समर्थः । संस्कृतवाच शब्दार्थन्यायावग वाचः संस्कारः । यो हि संस्कृतां वाचमुदीरयति स वाग्मी, यो बहुतरं वचनमनर्थक न भाषते सोऽपि वाग्मी । वाचो मिनिरिति मिनिप्रत्ययः । यो हि बहुतरमनर्थक भाषमाणः स न वाग्मी । स तु वाचालो वाचाट इत्युच्यते । आलनाटचौ बहुभाषि. णीति पाणिनिस्मरणात् । कुत्सित इति वक्तव्यमिति वातिकात्कुत्सितार्थ एतौ प्रत्ययौ । यो हि पृष्टः सन्प्रतिवचनं न्यायन ददाति मतिद्वैध उत्पन्ने संशयच्छेत्तेति निलि- तोऽर्थः । ऊनमेव न्यूनं न्यूनान्यङ्गानि यस्य म न्यूनाङ्गः, न न्यूनाङ्गोऽन्यूनाङ्गः । अति- रिक्तमधिकम यस्य सोऽतिरिक्ताङ्गः, नातिरिक्ताङ्गोऽनतिरिक्ताङ्गः । अङ्गानां न्यूनत्व- मतिरिक्तत्वं च सामुद्रिकशास्त्रोक्त पुरुषलक्षणसिद्धम् । प्रमाणे प्रमाणे द्वयं द्वयं समं यस्य स द्वयसस्तस्मादप्यन्यूनातिरिक्ता इत्यर्थः । प्रमाणे द्वयसज्वघ्नमात्रच इति पाणि- निमूत्रात्प्रमाणेऽर्थे द्वयतच्नत्ययः । तस्मात्ततिः । केवलाइ यस सत्ययात्तसिश्चान्दसः । !