पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१प्र० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । तस्माद्ब्राह्मणानामेवाऽऽविज्यमिति सिद्धान्तः । ब्राह्मणवचनमापद्यपि क्षत्रियादिनि- वृत्त्यर्थमिति मीमांसकाः। द्विजोत्तमानामाविज्यं न तु क्षत्रियवैश्ययोः । ब्राह्मणाविज्यनियमः क्रत्वर्थेनापि हि स्मृतः ।। इति मिश्राः । द्वादशाध्याये चतुर्थपादे नैमिनिरपि प्रभुत्वादाविज्यं सर्ववर्णानां स्यादिति सूत्रे- णाऽऽह । कात्यायनोऽपि ब्राह्मणा ऋत्विजो पक्षप्रतिषेधादितरयोर्दर्शनाचेति । तद्वै नाबाह्मणः पिबेदनौ ह्यधिश्रयन्ति तस्मानाबाह्मणः पिबेदिति मक्षप्रतिषेधादित्यर्थः । एवं च क्षत्रियवैश्ययोर्भागस्य होमविधानं न पक्षणमिति भक्षप्रतिषेधासिध्यति । द्वयो देवा अहेव देवा अथ ये ब्राह्मणाः शुश्चवारसोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एव यज्ञ माहुतय एवं देवानां ब्राह्मणाना शुश्रूवुषामन्चानानामाहुति- भिरेव देवाः श्रोणीति (!) दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणानिति । ब्राह्मणानामेवाss. त्विज्यमित्येतस्मिन्नर्थे दर्शनमेतत् । दक्षिणाशब्दः परिक्रयार्थे वर्तते । तेन बामणाना. मेवाऽऽत्विज्यमिति । स्मृतिरपि-पण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ॥ इति । घण्णां कर्मणामिति निर्धारणषष्ठ्यौ । अस्य विप्रस्य । पूर्वत्र तस्यैवोपक्रान्तत्वात् । नीवनानिर्वाहेऽध्यापनयाजनप्रतिग्रहाः कर्तव्याः । जीवननिर्वाह तु न । अकरणे प्रत्यवायो नास्तीति भावः । आर्षया ये खकोयमृषि जानन्ति । तथा च वाधूलवैखा- नसौ-आर्षयान्वृणीते ये खानृषीजानन्तीति । एतेनाप्रज्ञातबान्धवाना निवृत्तिः । शुश्रुवांसश्चाऽऽर्षेयाः । एष चै ब्राह्मण ऋषिरायो यः शुश्रुवानिति श्रुतेः । अषयो मन्त्रद्रष्टारः । तथा च नरुक्ताः-ऋषिर्दर्शनात्स्तोमान्ददशेत्यौपमन्यवस्तद्यदेनास्तपस्य- मानान्ब्रह्म स्वयंम्वम्यानपत्त ऋषयोऽभवन्तदृषीणामृषित्वमिति । आदशमात्पुरुषादव्य- वच्छिन्नमार्ष येषां त आर्षेया इत्यपि लक्षणं केचिंदाचार्याः प्राहुः । शुश्रुवान्सार्थ- वेदत्रयाध्यायी मार्यस्वशाखामात्राध्यायी वा । ब्राह्मणानार्पयानित्यन्येषां शास्त्रान्तरो. क्तानामृविलक्षणानामुपलक्षणम् । तान्यत्र प्रदश्यन्ते । तत्र धर्मसूत्रम्-नाननूचा- नमृत्विजं वृणीते न पणमानमिति । साङ्गस्य वेदस्याध्येता प्रवक्ता वाऽनूचानः । न, अनूचानः, अननु चानः । अननूचानमृस्विनं न वृणोते । नाप्येतावद्देयमिति परिभाषमाणमित्यर्थः । द्वौ नबावन्चानवरणस्यात्यन्तावश्यकता बोधयतः । धर्मसूत्रे वचनमोपासनहोमपार्वणस्थालीपाकवैश्वदेवादिष्वप्येतादृश एवविगितिज्ञापनार्थम् । एते. मैतेषु अस्विककताऽपि पोऽस्तीति ज्ञायते । शाङ्गायनोऽपि-आर्षेयान्यूनोऽनूचाना- विजो वृणोते सोमेन यक्ष्यमाणश्चतुरः सर्वान्वेति । भरद्वाजोऽपि-वसन्ते ज्योतिष्टोमेन