पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ । ९५० सत्यापादविरचितं श्रौतसूत्रं- [१० दशमप्र- मर्थ निषेधो व्यर्थ इति चेत्सत्यम् । तस्य दीक्षादिवसव्यतिरिक्तकयादिनात्मामाय- णीयादिवसेऽपि कर्तव्यताज्ञापनार्थत्वेन वैयाभावात् । तथा चाऽऽपस्तम्ब:--अत्र राजानमाहृत्य पयसौदनेन परिवावषन्त्याक्रयादिति । अत्रेत्यस्य द्वादशसंभारयजु:- मानन्तरमित्यर्थः । आक्रयादित्यनेन दीक्षादिवसेष्वपि परिवेषणं प्रापितं तावन्मात्रमनेन निषिध्यते । सूत्रे परिववेष्टोत्येकवचनाद्यनमान एव न पत्नी नचत्विजः । प्रथमे दीक्षा- दिवसेऽपि आहारणपरिवेषणे भवत एव । नहीक्षामु निवर्तत इत्यनेन सूत्रान्तरप्राप्तदी- क्षादिवस संबन्धिसायंकालिकपूजनपरिवेषणमात्रनिवृत्तिः क्रियते । एतेनैकदीक्षापक्षे निषेधस्य निरवकाशत्वापत्तिः परिता भवति । प्रायणाशादिवसेऽपि प्रातरेव पूजन- परिवेषणे भवतो न तु सायम् । आक्रायादित्यनेन क्रयात्प्रागेव तस्कर्तव्यतायां सिद्धायां कयोत्तरं तन्निवृत्तेरर्थत एव सिद्धत्वात् । अत्र सक्षेदं पश्येत्यनेन राज्ञ उपस्थानं कर्तव्यम् । यथारूपमितर इत्यनेनाविनियुक्तमन्त्राणां लिङ्गानुरोधेन विनियोगः कर्तव्य इत्यस्यार्थस्य सूत्रकृता प्रदर्शितत्वात् । आपस्तम्मोक्तरीत्या विनियोगस्त सूत्र. कृतैव ज्ञापनेन निराकरिष्यमाणत्वान्न पति । देवयजनाध्यवसानोत्तरं वोपस्थानम् । सक्षेत्यादयः शब्दा अग्निवायुसूर्यवाचकाः । सक्षादिशब्दास्तासामेवोपस्थानमिति वियारण्याः।

ब्राह्मणानार्षेयानृत्विजः षोडशैकैकशो वृणीते ।

ब्राह्मणानामेव स्मृतित आस्यिज्ये सिद्धे पुनर्ब्राह्मणवचनमादरार्थम् । अथवा तस्माद्वाजपेय याज्यात्विजीन इति श्रुतेः क्षत्रियस्यापि वाजपेययाजिनः प्राप्तिरत्र शङ्किता तन्निरासार्थम् । अथवा सप्तदशम्य प्रविग्भ्योऽन्ये चमसाध्वर्यवस्तषामनृस्वि. जामपि ब्राह्मणानामेव चमसाध्वप॒णां वरणविध्यर्थम् । आरिवज्यं त्रयाणामपि वर्णानां विद्वत्वाविशेषात् । याजनं ब्राह्मणस्यतिस्मृत्युक्तस्तु नियमः पुरुषार्थ इति न तदतिक्रमे ऋतुवैगुण्यमिति प्राप्ते यज्ञं व्याख्यास्याम इत्युपकम्य ब्राह्मणानामात्विज्यमिति यज्ञे सूत्रकारस्मरणं क्रत्वत्वेनेव नियमबोधकम् । अत एव रामायणे- क्षत्रियो याजको यस्य चण्डालः स विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ इति । सुरा देवताभूता ऋषय ऋविग्भूता इत्यर्थः । देवताया अभोक्तृत्वात्कतुवैगुण्य एव तात्पर्यम् । तथा-राजपाजकयाज्यस्य विनश्यति यथा हविः ॥ इत्यपि वचनं ऋतुवैगुण्यबोधकमेव । एतेन क्षत्रियादिवृत्युपनीविनोऽपि निरस्ताः । ब्राह्मणानामाविग्यमित्यत्र लिङ्गान्यपि ब्राह्मणानामिवर हविरित्येवमादीनि द्रष्टव्यानि ।