पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1884 [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । कम् । अन्यथा कयादिनिर्वाहो न स्यात् । आवाहनं विना पूजनमनुपपन्नमिति कृत्वाऽऽवाहनमध्यावश्यकम् । अत एव विसर्जनमपि । यद्याप विसर्जनस्यापि षोडशो- पचारान्तर्गतत्वेन पूजासंपादकत्वान्सपूज्य परिवेवेष्टीत्यनेन पूजोपचारान्तर्गतविसर्ज. नोत्तरभावित्वं भोजनस्य प्राप्त तथाऽपि विसर्जनानन्तरं देवताभावाभावेन परिवेषणासं- भवाद्विसर्जनात्पूर्वमेव परिवेषणं कर्तव्यम् । अस्मिन्पक्षे नैवेद्यपदार्थों भिन्न एव । परिवे- षणं तु महोपहारस्थानीयमिति । अथवा संपूज्येत्यनेन दीपान्तैव पूनोच्यते । पाय- सौदनेन परिववेष्टीति नैवेद्यार्थमेव । अस्मिन्कल्से न पृथङ्महोपहारः । अवशिष्टो- पचारास्त्वनन्तरं भवत्येव ।

तद्दीक्षासु निवर्तते ।

तत्परिवेषणं दीक्षासु दीक्षासंबद्धदिवसेषु, बहुवचनं ब्यादिवहुदीक्षामिप्रायेण । तेनैकस्यामपि दीक्षायां परिवेषणनिवृत्तिरस्त्येव । निवर्तते निवृत्तं भवति । अनेन बहुवचनेनेदमपि ज्ञायते बहुदीक्षापक्ष एव मुख्यः क्लेशबाहुल्यादिति । नहि क्लेशबहुल- तपो विना दुःखप्रदं पापं नश्यति यथा लोके पाटनमन्तरेण विषमत्रणानां नोपशान्ति- स्तद्वत् । न च ज्योतिष्टोमे व्यहं नानाति व्यहं नाश्नातीत्यादिनोक्तं तपोऽध्वर्योर्युक्तं तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्, दुःखत्वादेव फलभोक्तृसंस्कार- स्वाभावाद्यनमानस्य न युक्तमिति वाच्यम् । माविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः खामिसंस्कारत्वसंभवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारैरेयोदाहृतं यदा वै दीक्षितः कृशो भव. त्यथ स मेध्यो भवति यदाऽस्मिन्नन्तरं किंचिन भवत्यथ स मेध्यो भवति यदाऽस्य कृष्णं चक्षुषोर्नश्यत्यथ स मेध्यो भवति यदाऽस्य त्वचाऽस्थि संधीयतेऽथ स मेध्यो भवति पीवा दीसते कृशो यजते यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायत इति । मीयते क्षीयत इत्यर्थः । जैमिनिनाऽपि तपश्च फलसिद्धत्वाल्लोकवत् । वाक्यशेषश्च तद्वदितिसूत्राभ्यामुक्तम् । चकारो या(राद्या)जमानास्तु तत्प्रधानत्वात्कर्मवदिति सूत्रा- द्याजमानपदं वचनलिङ्गविपरिणामेनानुषज्यते । तथा च तपश्च याजमानमिति वाक्यं भवति फलसिद्धत्वात्फलोत्पत्तिप्रतिबन्धकदुरितनिवर्तनेन फलसाधकत्वात् । लोकव- लोकसिद्धमेतद्यः फलभोक्ता स एव तपः कर्तेति । वाक्यशेषश्च तद्वदित्यस्यार्थस्तु वाक्यशेषोऽपि लौकिकप्रमाणतुल्योऽस्ति न केवलं लौकिकप्रमाणमात्रमिति । अनेन तपसो दुःखात्मकत्वेन परिक्रीतपुरुषैरेव कर्तुमुचितं दुःखत्वादेव फलभोक्तृसंस्कार - स्वाभावः । अतो न यजमानस्य युक्तमिति शङ्का परिहियते । एतत्सूत्रद्वयं तृती. याध्यायेऽष्टमे पादे वर्तते । वाक्यशेषो यदा वै दीक्षितः कृशो भवत्यथ स मेध्यों पै भवतीत्यादिः । ननु पुरस्तादीक्षाभ्य इत्येतावतैव दिक्षादिवसेषु अनिवृत्तौ सत्या- १२५