पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्र- [१०दशमने- बौधायनधर्मसूत्रोक्तेः । ततः प्रातरेव मध्याह्न एव वा संकल्पं कुर्यात् । समस्ते कता- वर्ष श्रूयमाणं यजमानः कामयते यानि तु कामयतिः श्रावयतीति सूत्रात् । त्रिमिनर्मा- ममिराचार्येण व्यवहारासंकल्पवाक्ये ज्योतिष्टोमसोमामिष्टोमशब्दानां प्रयोगः । अग्नि ष्टोम इत्येव वक्तव्ये सोमेन यक्ष्यमाणो ज्योतिष्टोमेन खर्गकामो यमेनेति नामद्वयेनापि व्यवहारं कृतवतः सूत्रकारस्यानेकनाम्नामुच्चारणे प्रयोजनमदृष्टं विना न सन्यसमा वति । तच्च संकल्पवाक्ये त्रितयोच्चारणद्वारैव संभवति नान्यया । तत्राग्निष्टोमशब्देन संस्थानिर्देशः । ज्योतिष्टोमशब्देन स्तोमचतुष्टयनिर्देशः । सोमशब्देन द्रव्यनिर्देशः । प्रथमे प्रयोगे सप्रवग्येणेत्यस्यापि निर्देशो वैकल्पिकपदार्यान्यतरपदार्थपरिग्रहावधार- गाय । साम्नः प्राधान्यादमुकसाम्नेत्यस्यापि निर्देशः । दक्षिणाविषये बलीनां संख्याना बहूनां द्रव्याणां च विहितत्वान्नियमार्थ संख्यायाः प्रदेयद्रव्यस्य च निर्देशः ।

पुरस्ताद्दीक्षाभ्यो राजानमाहार्य परिवेवेष्टि।

दीक्षाया इत्येकवचनं विहाय दीक्षाम्य इति बहुवचनान्तः प्रयोगो बहुदिनसा- यदीक्षापक्ष एवं मुख्य इति बोधयितुम् । क्लेशबाहुल्यात् । उत्तरसूत्र एतत्सर्व स्पष्टी करिष्यामः । गिरौ क्रयणमिति पक्षे नाऽऽहारणम् । परिवेषणं तु तत्र गत्यैवेति सोमक्रय एवोक्तम् । आहार्येति णिच्प्रयोगात्परिकर्मिपिविगैरेवाऽऽहारणीयो न तु स्वयं न च शूदैराहरणीयः । न च शूरैरेवाऽऽहरणीयो न तु विप्रैः स्मृतिषु स्पर्शस्यैव निषि. तु द्धत्वेनाऽऽहरणस्य सुतरां निषेधादिति वाच्यम् । एतस्य निषेधस्याकारणस्पर्शनि- अंधपरत्वेनैतनिषेधपरत्वाभावात् । समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतः क्रयकीतः कर्म कुर्वन्पतत्यधः ॥ इति शूद्राहरणनिषेधके शातातपवचन आदिपदेन सोमादेराप संगृहीतत्वेन सोमा. थाहरणस्यापि निषेधसिद्धेश्च । राजपदं राजोपचार रानानयनं बोधयितुम् । तेच रथच्छत्रासपत्रप्तेवकवाद्यघोषाद्याः । परिवेवेष्टि भोभयति-सोमात्मिकया देवतया पोननं कृतमिति पावना कर्तव्या । पयसौदनेनेत्यापस्तम्बः । पयसोपसिक्तेनौदनेनेति तदर्थः । तथा चोमय मिलितमेव द्रव्यं द्रव्यमेदो न विवक्षितः । अन्यथा चकार उक्तः स्यात् । पायसौदनेनेति पाठे पयसि शृत ओदनो ग्राह्यः । अत्र सूत्रान्तरे विशेषः-रानान. माहार्य प्रत्यहं प्रातःसायमाक्रयान्नमः सोमाय राज्ञ इति राजानं संपूज्य पायसौदनेन परिवेष्टीति । अत्राऽऽवाहनादिविसर्गान्तषोडशोपचारास्मिकैव पूजा । आवाहनं विना पूनाया असंभवात् । विसर्जनं विना क्रयाद्यसंभवात् । नहिं यावत्पर्यन्तं देवतासत्त्वं तावत्पर्यन्तं क्रयः कण्डनादिकं च संभवति । या तु तत्र तत्र राजशब्दप्रवृत्तिश्यते सा च मावनामात्रपरा ज्ञेया । अत्र तु पूजाविधानादेवतात्वाभावाय विसर्जनमावश्य' । i