पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [१५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । णोऽधिकारः । ननु यद्यभिचरेदित्येवमाद्यभिचरितुः प्रयोगा उपदिश्यन्ते कथं वैरिणोऽ- नधिकार इति चेदुच्यते--अभिचरितुरपि सर्वजनवैरिणोऽनधिकार एव शास्त्रस्थान- न्यगतिकत्वात् । सर्व चैतच्छोधनमधिकारसिद्धयर्थे कार्य प्रारिप्सितकर्मणो निर्विघ्नप. रिसमाप्त्यर्थ ग्रहशान्त्युदकशान्त्यादि कार्यम् । यतः पापानि श्रेयांसि प्रतिबध्नन्ति मन्मानितान्यपि विरुद्धानि च विघातमाचरन्ति दृष्टादृष्टोपायैरतः प्राचीनानामज्ञा. तानां च पापानां विनातिकर्मभ्यः पतनहेतूनां तेषां सर्वेषामपनुत्तये निष्कृति- वश्यं कर्तव्या । अन्ततः केवलं कुश्माण्डहोममात्रमवश्यमशकेनापि कार्यमेव । माण्डर्नुहुयात्ततो देवलोकान्समभुत इति श्रुतावत्यन्तपवित्रत्वोक्तः । एतच्च शोधन बौधायनेन कर्मान्त उक्तम् --अग्निष्टोमेन यक्ष्यमाणः प्रज्यमात्मानं कुर्वीत येनास्य. कुशलं स्यात्तेन कुशलं कुतेति । प्रज्यं प्रगतज्यं धनुः स्वकार्यक्षमं यथा तथा स्वकार्ये शुद्धिसंपादनेन योग्यं कुर्वतित्यर्थः । येन शान्तिशान्त्याद्युपायसम्हेन कुशलं विनरहित कर्म स्यात्तेन कुशलं कर्म कुर्वीतेत्यर्थः । परिसरवर्तिनः सर्वाञ्छिष्टान्सत्कारपूर्व- कमाय संपूज्यं संपाय तेषामभ्यनुज्ञया कर्म कर्तव्यम् । अत्र श्रुति:- तस्मा- घनाक्षणोकोऽश्रधानो यनते शंयुमेव तस्य नार्हस्पत्यं यज्ञस्याऽऽशोर्गच्छतीति । बौधायनपरिभाषायामपि ये तत्र ब्राह्मणाः सन्ति ताननुज्ञाप्य कुर्वन्ति यत्कारी स्यारसमृद्धमेवास्य तद्भवतीति । एतत्सर्वं सोमपूर्वाधान आधानात्पूर्वमेव । यः पूर्वमा- हिताग्निः स हविर्यज्ञान्कृत्वा पाक्यज्ञानामकरणे तानपि कृत्वाऽग्निष्टोमं कुर्यात् । पदा तु स हविज्ञा एकवारमनुष्ठितास्तदा तत्करणासभने मायश्चित्तमात्रं कृत्वाऽपि अमिष्टोमः कर्तव्यः । तथा च कर्मान्तम्-यान्यूणान्युस्थितकालानि स्युस्तानि व्यय- हरेदनुज्ञापयीत वेति । अणानि अणांपाकरणानि नित्यानि कर्माणि उत्थितकालानि अन्तरितकालानि अकृतानीति यावत् । स्युभवेयुस्तानि व्यवहरेत्कुर्यात् । अनुज्ञापयोत या सर्वयोमर्य कर्तुमशक्तावनुज्ञया तद्विनाऽपि कुतित्यर्थः । अनेनेदं सूचितं भवति कमोऽत्राविवक्षित इति । उक्तं चाऽऽश्वलायनेन-दर्शपूर्णमासाम्यामिष्टेष्टिपशुचातु. मस्यैिरथ सोमेनोय दर्शपूर्णमासाम्यां यथोपपत्य के प्रागपि सोमेनैक इति । यथोप- पत्ति यथासंभवं, क्रमोऽत्राविवक्षित इति भावः । इष्टिरायणोष्टः, पशुनिरूदः । उपलक्षणमिदं सौत्रामण्याः । हविर्थज्ञानां द्वितीयादिप्रयोगे कालसत्तेऽनुष्ठानं तद- सत्त्वे प्रायश्चित्तमिति द्रष्टव्यम् । संकल्पात्पूर्वस्मिन्दिनेऽपराहे मातृकापूजनपूर्वकं नान्दी. श्राद्धं कर्तव्यम् । आनिकं त्वपराह्नत इति स्मृतबोधायनोक्तेश्च । तस्यामेव रात्रा. बुदकशान्तिप्रतिसरबन्धौ कर्तव्यो बौधायनोक्तेः । तौ च पृथक्पृथतन्त्रेण वा । तदु. तत्वादनुरारोपणमपि । उदकशान्तिप्रतिसरवन्धारारोपणानामकरणे प्रत्यवाया- मावः करणे फलाधिक्यमिति द्रष्टव्यम् । संकल्पदिने संकल्पात्पूर्वमेव गणपतिपूजनं पुण्याहवाचनं च कार्यम् । स्नानपवनमत्राचमनमनमोक्षणान्यपि संमरे कार्याणि -