पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८६ सत्याषाढविरचितं श्रौतसूत्रं-

10.1 अथ दशमः प्रश्नः। तत्र प्रथमः पटलः ।

तत्र प्रथमः पटलः ।

. उक्ता अग्निष्टोमाइयः संस्थाः पश्वकादशिनीयूपैकादशिन्यौ च । अपेदानीममि- ष्टोमादिष्वाकाक्षित पाजमानकर्म वक्तुं शिष्यावधानाय प्रतिमानीते-

अग्निष्टोमस्य याजमानं व्याख्यास्यामः ।

अग्निष्टोमस्येति वचनं मुख्यं कर्मणो नामधेयमनिष्टोम इत्येव तस्यैव पक्ष्य इत्येतया क्रियया साक्षादेवान्वयो न तु ज्योतिष्टोमसोमशब्दयोः, तयोस्तु अमिष्टोपशब्दात्पूर्व- मित्येतादृशार्थज्ञापनार्थम् । यद्यपि यन देवपूजासंगतिकरणदानेवितिधास्वनुशासन- सूत्रेण यमधातोः पूनाद्यर्थकालटः शतृशानचाविति सूत्रेण सडादेशशानच्यत्ययस्तेन निष्पादितेन यजमानशब्देन देवपूजादिकर्मणां कर्ताऽऽत्मनेपदाच फलमोक्ता प्रतीयो सथाऽपि योगरूढ्यस्विक्ताध्यकमणि फलभोक्ता यः स एव प्रतीयते । पर्तेष्वयमत्यर्येष्वपि यजमानशब्दप्रयोगदर्शनात् , देवपूनाकर्तर्यदर्शनाच । तस्मादृस्विकर्तृके कर्मणि पः फलमोक्ता स एव यजमानपदवाच्यः । न च कर्ममात्रफलभोकार दृश्यते प्रयोम उपनयनादिषु सामयाचारिफेष्वपि च फलमोकरि प्रयोगाभावात् । यजमानस्य कर्म यत्तद्यानमानम् । पन्यामपि उपहतेयं यजमानति मन्त्रलिङ्गाद्यजमानत्वसत्त्वात्तस्या अपि कर्मात्र संग्राह्यम् । तथा चैवं विग्रहवाक्यं भवति य नमानयोः कर्म यत्तद्याम- मानमिति । यद्यपि तत्तद्वेदविहितानि होतृवेदादिसंज्ञाभिर्होत्रादिनियतकर्तृकाण्येवेति व्यवस्थापितं तथाऽपि विशेषप्रमाणैस्तद्वाधने दंपत्योरपि क्वचित्कर्तृवं प्राप्तं तनि- रूप्यत इत्यर्थः । अत्राऽऽदौ संकल्पात्पूर्वमेव सामग्र्युपकरुपनमृत्विगुपकरुपनं . कर्तव्यम् । तद्विना त्वसिद्धः । तथाच सूर्य द्रव्यप्रकल्पनं. यजमानस्य दक्षिणादानं ब्रह्मचर्य जपाश्चेति । बौधायनेन कल्पसूत्रेऽत्र स्पष्टमिदमुक्तम्-अग्निष्टोमेन यक्ष्य. माणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां चेत्यादिना । कौन्तेऽपि स पुरस्तादेवोपकल्पयते प्रस्तं तृणं वशं पश्वाज्यं स्थाल्यमत्रं कुम्मं च कुरीरं घेत्यादि । द्वैधेपि अथातोऽग्निष्टोमं व्याख्यास्यामः स ह स्माऽऽह बौधायनो नादृष्ट्या राजानं चविनश्च दीक्षेदितीति । सामग्र्यविक्संपादनोत्तरं कृच्छ्रचान्द्रायणगायत्री- जपतिलहोमप्राणायामकूश्माण्डहोमगणहोमतीर्थयात्रा सेतुदर्शनादिभिः सपत्नीकमात्मानं संशोध्य ब्राह्मणैरनुज्ञातो वैराणि च प्रशाम्य संकल्पं कुर्यात् । शुचिना कर्म कर्तव्य- मिति श्रुतेः पूतः कर्मण्यो भवतीति श्रुतेश्चाधिकारार्थ प्रायश्चित्तनातं समुच्चितमसमुचित वा पातकानुसारेण कर्तव्यम् । निर्वैरः सर्वभूतेषु यज्ञेष्वधिकृतो भवेदिति स्मृतेनिरि- 1