पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ९८५ गव्याः पशव आलभ्यन्त इति श्रुतावुक्तिर्यत्र च गन्यानतिरिक्तपशूनितिसूत्रोक्तिस्त- अतान्प्रतीयाज्जानीयादित्यर्थः ।

स्वैरितरान् ।

इतरानगव्यव्यतिरिक्तान्पशून्स्वैः स्वस्वनामभिरेव तं तमेव प्रतीयान्नतु बहुनाममिर. नेकनातीयाः संगृस्यन्ते किंतु एकनातीयैव व्यक्तिरितिप्रसिद्धयर्थमिदं सूत्रम् ।

एकदेवतेष्वनन्यदेवतव्यवेतेषु समानः पशुपुरोडाशो भवति भवति ॥ २४ ॥

इति हिरण्यकेशिसूत्रे नवमप्रश्नेऽष्टमः पटलः ।

पया वाजपेये सप्तदश प्राजापत्येषु सप्तदशे प्रश्नेऽष्टादशे खण्ड उक्षाणः पशवो विहितास्तेषु च पुनर्वाजपेये सर्वेषां प्रतिपशु बहाँषि वपाश्रपण्य इत्यारम्य वरदान चेत्यन्तमेतत्समान सूत्रं पुनः कृतं तत्प्रयोजनमेकदेवतपशषु एकदेवतेष्वनन्यदेवतव्य- तेष्विति परिभाषाया अनित्यत्वज्ञापनार्थम् । तेनैकदेवतपशष्वपि पक्षे प्रतिपश्वपि पुरोडाशा भवन्तीतिज्ञापनम् । न विद्यतेऽन्यदेवतं व्यवेतं व्यवधायकं येषां तेऽनन्यदे. पसाः। एतादृशा य एकदेवताः पशवस्तेषु एक एव पुरोडाशो भवतीत्यर्थः । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्थी। इत्योकोपादश्रीमदनिष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जिदिसाहस्राग्निचित्पौण्डरीकयाजिगणेशदीक्षिततनुजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकशिसू. प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायो ज्योत्स्नाख्यायां वृत्तौ नवम- प्रश्नस्याष्टमः पटलः ॥८॥ संपूर्णोऽयं नवपः पश्नः।