पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०६ सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रभे- चकारेण संगृहीतत्वात् । एतेनैव मरुत्वतीयोपस्थानार्थ परिभूरग्निमिति कोऽसि को नामेत्येतदुपस्थानमपि संगृहीतं भवति । नाऽऽहवनीयधुवातिग्राह्यादीनामुपस्थान प्रातः- सवन उपस्थितस्वात् ।

वैप्रुषान्सप्तहोतारं च हुत्वा माध्यंदिनं पवमानꣳ सर्पन्ति तस्य बहिष्पवमानेन कल्पो व्याख्यातः ॥ १ ॥

वैनुषान्सप्तहोतारं च इत्वेति प्रातःसक्ने व्याख्यातम् माध्यंदिनं पवमान माध्यदिनपवमानार्थे सर्पन्ति सदः सन्ति । तस्य माध्यंदिनस्य पवमानस्य । अत्र मन्त्रविशेषमाह-

त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति मन्त्रꣳ संनमति ।

पष्टम् ।

उत्तरेण हविर्धानं गत्वोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य दक्षिणेन वा मार्जालीयमन्तरेण वा।

उत्तरेणाऽऽसोधीयं धिष्णिय परीत्यान्तरेण सदोहविर्धाने गत्वा दक्षिणेन मानी- कीय वेत्यर्थः । अन्तरेण वेत्यत्रान्तरेण हविर्धानमार्जालीयावित्यध्याहार्य सामर्थ्यात् । अत्र वाकारद्वयं द्वावपि पक्षौ मुख्यावितिद्योतनार्थम् ।

पूर्वेण द्वारेण सदः प्रविश्याध्वयुर्यजमानो ब्रह्मा चावतिष्ठन्तेऽग्रेण प्रशास्त्रीयं धिष्णियं परीत्योद्गातारो माध्यंदिनेन पवमानेन स्तुवते।

पूर्वण द्वारेण सदः प्रविश्याप्रेण प्रशास्त्रीयं धिष्णिय परीत्याध्वर्युर्यजमानो ब्रह्मा चावतिष्ठन्त इत्येवं वाऽन्वयः । अत्रावस्थानं नामोपवेशनमेव । अथवाऽग्रेण प्रशास्त्रीय धिष्णिय परीत्येत्यस्योत्तरसूत्रेऽन्वयः । दक्षिणेनौटुम्बसमिति सूत्रान्तरेऽस्मिन्पक्षेs- धिकमुक्तं तदप्यविरोधात्कर्तव्यम् ।

यदन्यत्पश्वानयनात्तत्संप्रेष्यति प्रतिप्रस्थातर्दधिधर्मेण चरेति संप्रेषस्यान्तꣳ संनमति ।

प्रतिप्रस्थातः पशुनेहीति पश्वानयनं तस्मादन्यद्यत्प्रेषणं तसंप्रेष्यति । तर्हि एता. वदेव प्रेषणं नेत्याह प्रतिप्रस्थातर्दधिधर्मेण चरेति संप्रेषस्यान्तं सनमति उहतीत्यर्थः । संप्रेष्यतीति वचनाद्यजुर्वेदेनाध्वर्युरिति परिमाषासूत्राद्विशेषावचनाचाध्वर्युः प्रेषवक्ता ।

विहृतेषु व्याघारितेषु धिष्णियेषु ।

विभूरसोत्यादिभिर्मन्त्रैरामीण विहतेषु अध्वर्युणा चतुर्ग्रहीतेन सोमेन पञ्च- S-