पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[(म०पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । परिमितं मिनोतीत्यर्थः । यूपत्वाञ्चषालप्राप्तावचषालमिति वचनम् । द्विरशनभेतस्य पशोरेकादशिन्यङ्गत्वात्तदभूतस्य यूपस्य रशनाद्वयमप्राप्तं स्यात्तत्प्राप्त्यर्थमिदं वच- नम् । संमाय यत्ते शिल्पः परावधादित्यादिविधिना संमाय स्थितं कृत्वा छेदन तूप: शयच्छेदनोत्तरमेव तस्मिन्यूपे त्याष्ट्रं त्वष्टदेवताक, पात्लोक्तस्य यूपं समायेत्यनेन पत्नी- पद्विशेषणस्यापि पशी संबन्धप्रदर्शनात्पत्नीवडणविशिष्टोऽत्र त्वष्टा देवतेति सिद्ध मवति । पत्नीवतें त्वष्ट्रे त्वा जुष्टमुपाकरोमोत्येवं सर्वत्रोहः | साण्डमित्यनेन भयोषल. वत्त्वं लक्ष्यते । लोमशमित्यनेन बहुललोमवत्त्वं पिङ्गलं बहुरूपं पिङ्गलबाहुल्येन पिङ्गल- वर्णवन्तं सद्ध(न्तंब)दुरूपं विचित्रवर्णमुपाकरोतीत्यर्थः । तमुपाकृतं पशुं पत्नीवते त्वष्ट्र इदमुत्सूनामीत्युत्सृन्याऽऽज्येन प्रतिनिधिना शेष तन्त्र संस्थापयेत्समापयेत् । वाचनिक- मिदम् । एवं च. कुम्भाशलादयः संज्ञप्तहोमादयश्चार्थलमा द्रव्यक्रिया निवर्तन्ते । अधिगोलोपः । आज्यशेषेण समापनस्य प्रकारस्तु स्पष्टमापस्तम्बेनोक्तः-यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्य धौवाज्यस्यावयेदिति । यद्यत्पशोरवदानं वपा- हृदयादि तस्य तस्य स्थाने धौवादाज्यादवद्येत् । त्रीस्त्रीपञ्चावत्तिनः । हिरण्यशक- लास्तु सर्वत्राविशिष्टा एव । अन्यत्र विशेषमाहाऽऽपस्तम्बः-पशुधर्माज्यं भवतीति । तत्राऽऽज्यं पशुधर्मकं भवति । वक्ष्यति च स एव परिभाषायां तद्धर्मात्स्यादिति । भतो वपास्थानस्याऽऽज्यस्य पत्नीयते खष्ट्रे छागस्य वपाया मेदस इति प्रेषः । तथा पशुपुरोराशहविषोरपि दृष्टव्यम् । तथा नातवेदो वपया गच्छ देवानित्येव होमः । एवं प्रयाजान्याजसमिष्ट यजुरादयश्च पाशुका एव भवन्ति न प्राकृताः । अत्र पक्षान्त- रमप्यक्तमापस्तम्बेन-अपि वा पर्यनिकृतमेवोत्सन्न संस्थापयेदिति । अपि वा पभिकरणान्तं कृत्वा पशुतन्त्रमन्त्यमुत्सृजेत् , न त्वाज्येन शेष संस्थापयेत् । पशु- पुरोडाशायनबन्ध्यायाः शेषं संस्थापयेत् । एवं पर्यग्निकरणान्ते कृत्स्वतन्त्रे वा सस्थिते पानीपतेऽनूबध्यायाः शेषं संस्थापयेत् ।

यदि कापेयी पश्वेकादशिनी स्यादभित आग्नेयमैन्द्रौ पशू भवतः सारस्वतः सौम्यः पौष्णो बार्हस्पत्य इत्युत्तरतो वैश्वदेवो मारुतः सावित्रो वारुण इति दक्षिणतः ।

पूर्व स्वशाखोक्तकादर्शिनी व्याख्याता । इदानी गस्यामेपैकादशिन्यां शाखान्त- रोक्तो विशेषः प्रदश्यते-कपयो नामर्षयस्तैदृष्टा कापेथी सा चेच्चिकोर्षिता स्थात्त- दाऽऽग्नेयमग्निष्ठ उपाकृत्य दक्षिणोत्तरयोयूपयोरेन्द्रावपाकृती भवतः। तत उत्तरेषु यूपेषु सारस्वतसौम्यपाणबार्हस्पत्यानुकृपाकृत्य दक्षिणपेषु वैश्वदेवमारुतसावित्रवा- रुणानुपाकुर्यात् । व्यत्याप्तो दक्षिणापवर्गत्वं च पूर्ववत् । नान्द्रानो विद्यते । १.च. ज. स.न. पवा। - .