पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८२ सत्यापादविरचितं श्रौतसूत्र- [९नवमप्र-

तस्य तस्यार्धर्चे वसाहोमं जुहोति ।

दिग्योमार्थ शेषं पात्रान्तरे स्थापयेहिग्यागस्यादृष्टार्थत्वाद्विभवन्ति तन्त्रमनानीति सूत्रादेव सूत्रकृता प्रदर्शितमेव भवति । आपस्तम्बः स्पष्टमवेदमाह-उद्रेकासमपनीय दिशः प्रति यजतीति । निहितं शेषमेकीकृत्य तन्त्रेणैव दिघोमः । उद्रेकसमवनयनं दिग्धोमतन्त्रतासिध्द्यर्थमेव । अन्यथतस्य व्यर्थत्वापत्तेः । सर्वेषां व्यङ्गाणि समवत्तं चेत्यनेमोत्तमे पशौ स्विष्टकृयाग इति ज्ञापितमेवार्थात् । वनस्पतेरपि. स्विष्टकृद्विकार- खात्तस्यापि स्विष्टकृत्समीपस्थान एव याग इत्यपि दर्शितप्रायमेवार्थात् । आपस्तम्षेन स्पष्टमेवोकम् - उत्तमे पशौ वनस्पति विष्टकृतं चेति ।

सर्वेषां गुदैरुपयज उपयजति।

उपयड्ढोमस्थान्यानानुनिपातित्वात्प्रथमपशोरुपस्थितत्वेन तदीयगदेनैवोपयाज इति शङ्कामपाकर्तुं सर्वेषामितिवचनं प्रतिपत्त्यर्थमिति भावः । प्रत्येकहोमस्या देव निवृत्त- स्वातन्त्रमेव । समुद्रं गच्छत स्वाहेत्येवम्ह: सर्वेषु मन्त्रेषु । स्वरुहोमे यां पो भू० एणध्वमित्यूहः । अनूबन्ध्यापक्षेऽग्निष्ठय्पस्वरुहोमो न ।

जाघनीभिश्च पत्नीः संयाजयन्ति ।

प्रतिपत्त्यर्थमिति भावः ।

अनूबन्ध्यावपायाꣳ हुतायामग्रेण शालामुखीयमधोनाभिमचषालं द्विरशनं पात्नीवतस्य यूपꣳ संमाय तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपमुपाकरोति पर्यग्निकृतमुत्सृज्याऽऽज्येन शेषꣳ सꣳस्थापयेत् ।

अनुबन्ध्यावपायां हुतायामामिक्षायाः प्रधानयागे कृते वा स्वास्य पशोस्तश्रमा- रम्यते । त्वष्टा देवता यस्य स त्वाप्टूः । पानीवतस्य यूपं छिनत्तीत्यनेन पत्नीवद्विशे. षणविशिष्टोऽत्र देवतेति प्रदर्शितम् । पत्नीवानिति देवता यस्य स पानीवतः । विशेषणप्रयुक्ताऽप्यस्मिन्यूपे संज्ञाप्रवृत्तिरिति दर्शयितुं द्विविधाऽपीयं संज्ञा श्रुती प्रवृत्ता–इष्टं वपया भवत्यनिष्टं वशयाऽथ पालीवतेन प्रचरति तीर्थ एव प्रचरत्ययो एतद्देवास्य यामस्त्वाष्ट्रो मवतीति । यस्पनिकृतं पानीवतमुत्सृजतीत्यादि । अप्रेण शालामुखीयमित्यनेन शालामुखीय एव प्रचारोऽस्येति सूचितम् । स्पष्टमिदमुक्त. मापस्तम्न-शालामुखोये प्रचरन्तीति विज्ञायत इति । एवं चोदयनीयवत्प्राग्वं. शिके विहारे सर्व तन्त्रमित्युकं भवति । अत्राग्नेविहृतत्वादुत्तरवेद्यादीन्यर्थलुप्तानि निवर्तन्ते । वेदिस्तु दाशिको क्रियते । ये चान्बन्ध्यार्थाः - प्राकृताः संस्कारास्तेऽपि कियन्ते । यथा प्राजहितपरिस्तरणोपराज्यास्तरणादयः । नाम्ययो यस्प्रमाणं ताव.