पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ९८१ तरित्यनूहः । नाभिरुप मा मेदो हविरित्यगृह्यानीत्याश्वलायनेन हविःशब्देऽनूहस्योक्ते- हेविष इत्यन्तो नमतीत्यनूबन्ध्याप्रकरणस्थापस्तम्बसूत्रोक्तालिकाच । प्रथमहृदयं सदीयहरयशूलात्प्रवृह्य प्रथमकुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन एंदयमभिधार्य स्वाहोष्मणोऽव्ययिष्या इत्यूष्माणमुद्यन्तमनुमन्व्य यस्त आत्मेति कुम्भी. गतं पशमभिधारयति । ततः प्रत्यावृत्य पुनः पञ्चगृहीतं पृषदाज्यस्त्वं च पूर्ववदादाय तृष्णीमेवाभिप्रवनति न संवादः । केचित्तु अन्यः पञ्चगृहीताज्यपृषदाज्यनुवावान- यंतीति वदन्ति । पूर्वववृदयस्य दृदयशूलात्प्रवृहणादि यस्त आत्मेत्यभिधारणा. न्तम् । एवं तृतीयादीनां पशूनामेकैकां कुम्भीमुद्रास्यैकैकां पञ्चहोत्रा क्रमेण तत्तत्प्ल. सशाखायां निदधाति । दृश्ह गा दृश्हत्यस्मिन्मन्त्रे नोहः कित्वावृत्तिरेव । अविभष. न्त्यावर्तन्त इति सूत्रात् । यस्त आत्मेति मन्त्रे यपावदूहः । इमानीन्द्रियाण्यमृतानि बीण्येभिरिन्द्राय पशवोऽचिकित्सन् । तैर्देवा० शृतानि मयि श्रयन्ताम् । अयं यज्ञः पघहोता । एतयोरप्यत्र संभवे तन्त्रमविभव आवृत्तिः ।

तस्य तस्याभ्यावर्तते मनोता वा।

तस्य तस्य पशोरम्यावर्तते जुहूपभृतोर्वसाहोमहवन्या समबत्तधान्यां चोपस्तृणीत इत्यादीज्यान्तमेकैकस्याऽऽवर्तते । अविभवन्त्यावर्तन्त इति सूत्रात् । मनोता वेत्यनेन मनोतासूक्तस्याप्यावृत्तेनियमेन प्राप्तौ विकल्पमाह मनोतासूक्तस्य । अथवैवं सूत्रान्वयः- तस्य तस्य पशोरवदानकाले मनोता वाऽऽवर्तत इति मनोताविकल्पार्थमेव सूत्रकरणम्। मुहूपमृतसाहोमहवनीसमवत्तधान्युपस्तरणादीनां स्वर्थादेव प्राप्तिः । अवदानसम- काला तावन्मनोता हविषोऽवदीयमानस्येति लिङ्गात् । तत इज्याकालेन व्यवायात्प्र- तिपश्चावर्तनमित्यावृत्तिरर्थत एव सिद्धी । उक्त चाऽऽपस्तम्बेन स्पष्टं परिभाषासूत्रे मनोतस्याऽs(ताया आ)वृत्तिभिन्नकालेन्विति । अत्र वर्तमानकालभेदादावृत्तिरिति भावः । अनावृत्तिपक्षोऽप्यापस्तम्बेमोक्तः-तनं वेति । एवं च सूत्रकृतः पक्षद्वयस्यापीष्टत्वाति करूपः कृतः सूत्रकृताऽपि । तत्रपक्षे कथं समकालत्यमिति चेत्सत्यम् । आग्नेयीय मनोता, इतरपश्ववदानकाले तु नान्यहविषो देवतायाः संस्काराय प्रभवति आग्ने- यपश्ववदानसमकाल एवाऽऽग्नेयहविषो देवताया एकदेवतत्वासंस्काराय प्रभवत्ये.. I बेति भावः ।

सर्वेषां त्र्यङ्गाणि समवत्तं च।

इदं सूत्रं प्रधानार्थतत्तत्पश्ववदानोत्तरकालमेव व्यङ्गाणां विष्टकृदर्थमवदानं न तु भन्ते यागेऽपि तदेत्येतद्वोधनार्थम् । उपभृति हिरण्यशकछावधानमन्तेऽमिघारणं च । देवतार्थस्य तु तत्तदनन्तरमेव । समवत्तशब्दनेडावदानाप तदा तदैव । अभिधारणे स्वन्ते । ज्यान्तमेकै कस्य क्रमेण ।