पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७६ सत्याषाढविरचितं श्रौतसूत्रं- [नवमप्रश्ने- त्वा जुष्टमुपाकरोमीत्यग्निष्ठम्योत्तरस्मिन्यूपे पोष्णं श्याममुपाकरोति प्रज्ञाते बर्हिषी निधाय पुनरिषे त्वेत्यादि बृहस्पतये त्वा जुष्टमुपाकरोमीत्यग्निष्ठस्य दक्षिणे शिति- पृष्ठं बार्हस्पत्यमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेयादि विश्वेभ्यो देवे. म्यस्त्वा जुष्टमुपाकरोमीत्यनिष्ठस्योत्तरस्मिशिल्पं वैश्वदेवमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे स्वत्यादीन्द्राय त्वा जुष्टमपाकरोमीत्यादि अग्निष्ठस्य दक्षिणेऽ. कुणमैन्द्रमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे खेत्यादि मरुभ्यस्त्वा जुष्टमुपा. करोमीत्यग्निष्ठस्योत्तरस्मिन्कल्माष मारुतमुगाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे स्वेत्यादीन्द्राग्निभ्यां त्वा जुष्टमुणकरोमात्यनिष्ठस्य दक्षिणे संहितमैन्द्राग्नमुपाकरोति । प्रज्ञाते बर्हिपी निधाय पुनरिष नेत्यादि सवित्रे त्वा जुष्टमुपाकरोमीत्यादि अग्निष्ठ. स्योत्तरस्मिन्नधोसम सावित्रमुपाकरोति । प्रज्ञाते बहिषी निधाय पुनरिषे त्वेत्यादि वरुणाय त्वाजुष्टमृपाकरोमीत्यग्निष्ठस्य दक्षिणे पेत्व वारुगमपाकरोति । तत उपाकृतेषु पशुषु आरण्यपशुनिदशं द्वेष्यनिर्देशं वोपशगयूपे कृत्व.पाकृत्य पञ्च जुहोति । एतस्य होमस्य विभवन्ति तन्त्रमणानीति सूत्रात्तन्त्रेणैव होमः । तत्र पशूनां बहुत्वा- त्पश्वभिधानशब्देषु बहुवचनान्त उहः सर्वत्र । सुवर्ग यात. प्रतितिष्ठत० निष्क्रीता इमे ० यन्सु • वध्यमानान् ० उपाकृताञ्छशमानान्यद० अपियन्नु पाथः० जीवशब्देऽ. प्यूह केचिदिच्छन्ति । ततो मन्थनं तन्त्रेण विभवन्ति तन्त्रमणानीति सूत्राददृष्टार्थ- त्वस्य प्रत्यक्षतःसिद्धत्वात् । सावित्रेण रशनादानादि नियोजनान्तमेकैकस्य । अविभवन्ति प्रत्यक्षार्थानि प्रतिसकारमयावन्ति इति सूत्रात् । संयुक्तानि त्वेकाप- वर्गाणीति परिभाषया कृत्स्न-कैकमपवर्जयतीति सूत्रात्काण्डानुममयः । यूपस्य दक्षि- णतः पशुनियोजनं पूर्वोक्तक्रमेण । प्रोक्षणाद्यधस्तादुपोक्षणान्तमेकैकस्य क्रमेण करोति । सर्वेषां मेध्यकरणत्वरूपायोजनक्यात्संयुक्तत्वं संयुक्तत्वादधस्तादुपोक्षणा- 'न्तानां पदार्थानामेव कर्मत्वम् । कृत्स्नमेकैकमपवर्जयतीतिसूत्रात्संयुक्तानि त्वेकाप- वर्गाणीति सूत्राच । स्वदतैनामिति मेप्यां मंत्र उहः । स्रुच्यमाघार्य प्रत्याक्रम्य से ते प्राण इत्यादि सं यज्ञपतिराशिषेत्यन्तं क्रमेण सर्वेषाम् । अजनरूपपदार्थस्यैकत्वात्। ततो धुंवासमञ्जनादि दश प्रयाजास्तेषां तन्त्रमेव । विभवन्ति तन्त्रमणानीति सूत्रात्। नचोत्तमप्र- याजस्य तन्त्रविधानादेतेषां तन्त्रं न भवतीति वाच्यम् । अन्तिमप्रयाजस्य निष्पन्नवपारू. पद्रव्यसंस्कारकत्वेन संनिहितत्वेन च साक्षादपकारकत्वात्प्रतिवर्ष प्राप्तिः शङ्किता स्यात्त- निवृत्त्यर्थ वचनस्याऽऽवश्यकत्वात् । इतरेषां प्रयानानां तु वपारूपद्रव्याधारसंस्का- रकत्वेन सनिहितत्वाभावेन च साक्षादुपकारकत्वाभावाद/देवाऽऽवृत्तरप्राप्तेर्न तत्रवि- थाने सूत्रं कृतपाचार्येण । दशप्रयानेज्यानन्तरं जुह्वा प्रथमं स्वरुमङ्क्त्वा स्वधिर्ति चाकृत्वाऽऽग्नेयपशोः शिरोञ्जनादि श्रेोयञ्जनान्तं करोति । स्वधितिरेक एव । तस्य च पुनः पुनरञ्जनं पूर्वकृत अनाज्यस्य पूर्वपशौ विनियुक्तत्वात् । एवरीत्या है