पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७४ 'सत्यापाढविचित्र प्रौतसूत्र- [९मवमप्र- वैश्वदेवं शिल्पमुत्तरपे, ऐन्द्रमरुणं दक्षिणपे मारुतं कस्माषमुत्तरयुपे, 'ऐन्द्रानं संहितं दक्षिणयूपे सावित्रमधोराममुत्तरयूपे पाहणं पेत्वं दक्षिणपे । एवं व्यत्यानं व्यत्यस्य व्यत्यस्य दक्षिणापवर्गानेतान्पशनुपाकरोति । एवमुत्तरमुत्तरमुपाकृत्य दक्षिणं दक्षिणमुपकुर्वनितरान्पोष्णादीनपि पश्नुपाकरोति । तत्र व्यत्यासक्रमादर्थसिद्धे दति- गापवर्गत्वे पुनर्वचनं यत्राप्येकयूपे पश्वकादशिनी तत्राप्येवमपवर्गार्थम् । नैतेपा पशूनामुपाकरणकाले प्राच्यादिदिगमिमुखत्वनियमः । अर्थादेवोत्तमत्वे सिद्ध उत्तमवचन वक्ष्यमाण ऐन्द्रस्य लोके वारुणमालमेत वारुणस्य लोक ऐन्द्रमित्यनेन सूत्रेण विहिते स्थानव्यत्यासेऽपि वारुण एवोत्तम इत्येतदर्थम् ।

यदि कामयेत योऽवगतः सोऽपरुध्यतां योऽपरुद्धः सोऽवगच्छत्वित्यैन्द्रस्य लोके वारुणमालभेत वारुणस्य लोक ऐन्द्रं य एवावगतः सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छति ।

यदि यजमानो योऽवगतो द्वेष्यः किंचिदपरुध्य प्राप्तराज्यः स्यात्सोऽपरुध्यतान. श्वर्याद्भ्रष्टो भवतु । यस्तु तेनापरुद्धोऽवरुद्धः सोऽवगच्छतु प्राप्तैश्वर्यो भवतु इति यो । यजमानः कामयेत तदाऽध्वर्युरेतादृशयजमानकर्तृके कर्मणि ऐन्द्रस्य लोके स्थाने

वारुणं पशुमालभेत वारुणस्य पशोर्लोक ऐन्द्रं पशुमालभेत । एतत्फलं य एवावगतः

सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छति । गतार्थ कामनावाक्येनैवेदम् ।

यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेदिति प्रजा एव मोहयति ।

प्रजा मुह्येयुः प्रजा मोहं गच्छेयुरिति यदि यजमानः कामयेत तदैकैकान्तरिताप. शूनृपाकुर्यादेष व्यतिपङ्गो नाम । यथाऽग्निष्ठ आग्नेयमुपाकृत्य सौम्यमुत्तर आलो ततः सारस्वती मेषी दक्षिणे वार्हस्पत्यमुत्तरे पौष्णं दक्षिण ऐन्द्रमुत्तरे वैश्वदेवं दक्षिण ऐन्द्राग्नमुत्तरे मारुतं दक्षिणे वारुणमुत्तरे सावित्रं दक्षिणे । एष पशूनां व्यतिषङ्गः । अस्मिन्करूपे वारुणं पेत्वमुत्तममित्यस्य बाधः । स्थानव्यतिषङ्गमात्रं वाऽत्र । पश- वस्तु क्रमेणैवोपाकरणीया इति पक्षे दक्षिणापवर्गानित्यस्य बाधः । एतत्फलमाह प्रना एवं मोहयतीत्यनेन ।

यदभि वा हतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमालभतेऽप वा हतः ।

यदि धनमानः, अपामिति षष्ठी द्वितीयार्थे । समुखं समीपं स्वगृहसमीप नथा. । ग. च. एवं