पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A ९७२ सत्याषाढविरचितं श्रौतसूत्र- [९नक्मप्रश्न- चिदुत्तरोत्तरं हसीयस्त्वमितिज्ञापनार्थ पूर्वत्र वीप्ताया अश्रवणादुत्तरोत्तरं हसीयस्त्वं नास्ति किंतु तुल्यं हृसीयस्त्वमिति ।

आराग्रामभिचरतस्तेषामग्निष्ठं वर्षिष्ठमथेतरान्ह्रसीयसो हृसीयसः ।

आरामास्वरूपं तेषामग्निष्ठं वर्षिष्ठमधेतरान्हप्तीयसो हसायस इत्येतेन सूत्रेणोच्यते । अत्रापि वर्षिष्ठना दैण । पूर्ववद्वीप्साश्रवणादितरेषां किंचिकिचिदुत्तरोत्तरं इसीय- स्त्वम् । आरामास्वरूपं स्पष्ट माहाऽऽपस्तम्बः-मध्य उन्नता भवत्यनुपूर्वमन्तौ निनता- विति । अग्निष्ठ उन्नतो भवति ततः प्रभृति क्रमेणान्ता निनता भवन्ति दक्षिणत उत्तरतश्चैषाऽऽराग्रेत्यर्थः । आरमिवानं मध्यमागो यस्याः साऽऽराग्रेति । आरश- ब्देनोच्चतोच्यते ।

समवस्राविणीं वृष्टिकामस्य तेषामग्निष्ठꣳ ह्रसिष्ठमथेतरान्वर्षीयसो वर्षीयसः ।

तेषां यूपानां मध्येऽनिष्ठ हसिष्ठमितरान्वयतो वर्षीयः । वर्षीयलो वर्षीयस इति वीप्सया क्रमेणोत्तरोत्तरमनिष्ठव्यतिरिक्तानां वर्षीयतः । अथशब्दः क्रमाोंड. मिष्ठस्य हसीयस्त्वसंपादनोत्तरमितरेषु क्रमाद्वर्षीयस्त्वसंपादनमिति । सम्यगवस्राक- णमुच्चप्रदेशादाकाशात् । निनतायां पृथिव्यां सम्यक्स्रावणमिव यस्यां पा समवस्त्रावि. गीति । वृष्टिर्वर्षणम् ।

व्यत्यस्तं भ्रातृव्यवतो ह्रस्वं दीर्घं च व्यतिषजेत् ।

हस्व दीर्घ च व्यत्यस्तमैकैकान्तरित व्यतिषनेद्योजयेदित्यर्थः । स्पष्टममुमर्थमा. हाऽऽपस्तम्बः-व्यतिषक्ता भ्रातृव्यवत उभयोः पार्श्वयोरग्निष्ठादेकैकान्तरितास्तेन समा भवन्तीतरे विषमा एष व्यतिषङ्ग इति ।

यदि कामयेत विट्क्षत्रादोजीयसी स्यादिति येsग्निष्ठाद्दक्षिणे तान्वर्षीयसो वर्षीयसो मिनुयात् ।

यदि यजमानः क्षत्रात्क्षत्रियजातेर्विड्वैश्य जातिरोनीयप्ती बलीयसो स्यादिति काम - येत तदा येऽग्निष्ठाइक्षिणतो यूपास्तान्वर्षीयसो वर्षीयस उत्तरोत्तरं क्रमेण मिनुया- दध्वयुरित्यर्थः ।

यदि कामयेत क्षत्त्रं विश ओजीयः स्यादिति येऽग्निष्ठादुत्तरे तान्वर्षीयसो वर्षीयसो मिनुयात् ॥ २२ ॥

क्षत्रं क्षत्रियजातिपिशो वैश्य नातेरोजीयो बलिष्ठ स्यादिति यदि यजमानः काम- येत तदा येऽनिष्ठादुत्तरे तान्वर्षीयसो वर्षीयस उत्तरोत्तरं क्रमेण मिनुयादित्यर्थः । मर्यादुमय नावशिष्टानां हसीयस्त्वम् ।