पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प] गोपीनाथमकृतज्योत्यांव्याख्यासमेतम् । ९७१

उपरसंमितां मिनुयात्पितृलोककामस्य ।

पस्यामुपरा एव समानाः सोपरसमितेत्युच्यते । पितृलोकं कामयतोयममानस्ये. त्यर्थः।

रशनसंमितां मध्ये च संमितां मनुष्यलोककामस्य ।

यस्यां रशना एव समाना यूपानां मध्यभागाश्च समानास्ताम् । अस्मिन्मनुष्यलोक इतरेमातुलता बुधुर्मनुष्यलोककाम इत्युच्यते ।

चषालसंमितामिन्द्रियकामस्य ।

यस्यां चषालाः समानास्तामिन्द्रियकामस्य, इन्द्रिय सन्द्रियपाटवं तत्काम इन्द्रिय. काम इत्युच्यते ।

सर्वान्समान्प्रतिष्ठाकामस्य ।

मिनुयाविति सर्वत्र शेषः । उपसमितामित्यत्रोपराणामापामसा यमगन्तव्यम् । पन्मध्यसमितत्व रशनासमितत्व.प तापमध्यानां रशनानां च तिर्यक्त्वस्पाप्येतस्मा- म्पम् । यचवालमितत्वं तवषालपृथुत्वसाम्यम् । एतदर्थे प्रमाणीभूतं सूत्रमायामत उपराणीत्येतदारभ्य प्रथिन्नश्चषालानीत्येतदन्तमने वक्ष्यते ।

ये त्रयो मध्यमास्तान्समान्पशुकामस्य व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति ।

मध्यमा मध्यतना ये त्रयो युपास्तान्समान्कुर्यात्पशुकामस्य । मध्यतनेम्य इतरांन्व्य. तिषनेत् । एकैकान्तरिता मध्यमेभ्य इतरे ये ते न समा भवन्ति कि तु विषमा एवाऽऽ. भवन्ति । एतेन व्यतिषलेणैन यजमानं प्रजया पशुभिश्च व्यतिषिक्तं विशेषेणातिरिक्त समृद्धं करोतीत्यर्थः । उभयोः पार्श्वयोरमिष्ठादेककान्तरितास्ते न समा भवन्ती- तर विवमा एष व्यतिषत इत्यापस्तम्बः ।

यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथेतरान्ह्रसीयसः ।

पं यजमानं प्रमायुको झटिति मरणशाली स्यादिति यः कामयेत तस्य पममा.

मस्य गमितमेकादशिनयपानां गर्तेन मितं परिमाणं मिनुयात् । गर्तमितस्वरूपमाह-- उत्तराध्य वर्षिष्ठमथेतरान्हसोयस इत्यनेन । इयं पारिभाषिकी संज्ञा । उत्तरार्धे मव उत्तरार्ध्वस्तमुत्तराय॑ वषिष्ठं स्थविष्ठम् । अथशब्दः क्रमाः । उत्तराय॑स्य वर्षि- छत्वसंपादनोत्तरमितरेषु हसीयस्त्वसंपादनमिति ।

दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्स्वर्गकामस्याथेतरान्ह्रसीयसो ह्रसीयसः ।

अत्र वर्षिष्ठता देर्येण । इसीयसो हसीयत इति वीप्साश्रवणादितरेषां किंचित्कि- १ ग. च, म. यात्सुवर्ग।