पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । परा दशरथाक्षा, एकादशोपरमितायास्तस्याश्चतुर्विशो मागः पञ्चतिलोनकोनपञ्चाशद- अलात्मकस्तत्पमाणेन दण्डेन वेदि विगिमीत इत्यर्थः । इयं चतुर्विशमागसमिता रज्जः प्रक्रमस्थानीया भवति । इयमेव रज्जुरत्र प्रक्रमो भवति न तु द्विपदस्निपदो का प्रक्रम इतिशुल्बसूत्रोक्तोऽत्रेत्यर्थः ।

अग्निष्ठं द्वाभ्याꣳ रशनाभ्यां परिवीयैकादशिनीरशना अग्निष्ठे परिवीय वासयति ।

अग्निप्तमीपे तिष्ठतीत्यनिष्ठतं संमाय तं द्वाम्या रशनाम्यां युगपरपरिव्ययति । सत्र रशनादाने द्विववूहः । परिवारसीति नोह्यते यूपाभिधानात् । ततोऽन्या एका- पशिनीरशना एकादशीनी संबन्धिरशना एकादशिनीरशना अवशिष्टा दशानिष्ठे परि- वीय परिवेष्ट्य वातयति । अवशिष्टा एकादशिनीरशना अग्निष्ठ एवं यावत्पर्यन्तं यथा यथाऽऽसा विनियोगस्तावत्पर्यन्तं तदहरेव परिवेष्टिता एव स्थापिता भवन्तीत्यर्थः ।

श्वोभूत आश्विनं गृहीत्वा यूपान्संमिनोति ।

गतम्।

पूर्वेद्युः संमानमेके समामनन्ति ।

पूर्वेचुरग्निष्ठेन सहैवोपस्थापयतीत्येक आचार्या वदन्तीत्यर्थः । नास्मिन्पक्षेऽग्निष्ठे रशना वासयति । परिवीता एव तु यूपास्तिष्ठन्ति । अन्यथाऽअनाद्यापरिव्ययणायन- मानस्य यूपानुत्सर्गविरोधात् ।

तन्त्रमभ्रेरादानं परिलेखनोऽभ्यावर्तते ।

विभवन्ति तन्त्रमनानीत्युक्तस्यैव न्यायस्य दर्शनार्थमिदं वचनम् । परिलेखनो विधिरम्यावर्तते । अविभवन्ति प्रत्यक्षार्थान्यम्यावर्तन्त इत्यस्य न्यायस्य दर्शनार्थमिदं वचनम् । परिलेखने क्रमविशेषमाह-

दक्षिणमग्निष्ठात्परिलिख्योत्तरं परिलिखत्येवं व्यत्यासमुदगपवर्गान् ।

उदङ्न्यायानौतिपरिभाषाप्राप्तोदगपवर्गत्वबाधनापार्य क्रमविशेषः । अनिष्ठाय. पावटाक्षिणं यूपावट परिलिख्योत्तरं यूपावटं परिलिखति । ततो दक्षिणयपाक्टाइ- लिणं यूपावटं तत उत्तरयूपावटादुत्तरं यूपावट ततस्ततोऽपि दक्षिणं ततस्ततोऽप्युत्त- रम् । एवं रीत्या याबद्दश यूपावटाः स्युस्तावतः पञ्च दक्षिणतः पश्चोत्तरतः परिलि- खति । उदगपवर्गवचनं दक्षिणस्य कृत्वोत्तरस्य क्रिययोदगपवर्गासमिनोति न तूपक- मानुसारेण दक्षिणापवर्गानिति मावः । .