पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 १६८. सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रने- संस्कारः सर्वेषां कार्यः, न तु काण्डानुप्समयनैकैक इत्यर्थः । तद्यथा सर्वानुपाकृत्य सर्वान्नियुनक्ति ततः सर्वान्प्रोक्षतीत्यादिप्रोक्षणस्यादृष्टार्थत्वे(त्व) संभवे तन्त्रमपि क्रमस्तेषां यः पशूनां क्रमः स एवोपाकरणनियोजनादीनां कम इत्यर्थसिद्धम् । स्पष्टमुक्तमाप- स्तम्भेन–यथाचोदित सस्कारा इति ।

यथार्थमूहः ।

विकृतौ यथार्थमूह इति परिभाषणात्मकृतावूहनिवृत्तिं मा शङ्कोति पुनरूहवपनम् । तेन पशुभिरेहि पशुषु संवदस्व पशवो मायूनकृषतेत्यायूह्यत एव ।

यूपाहुतिꣳ हुत्वाऽग्निष्ठप्रथमानेकादश यूपानुपशयपात्नीवतौ च च्छिन्नत्ति ।

पुनपाहुतिवचनाद्दीक्षितस्यापि हूयते यूपाहुतिनिषेधे सत्यपि । सा चैकैवाऽऽरा- दुपकारित्वादुपशयस्यापि ।

एकयूपेन विकल्पते ।

एकयूपेनेयं यूपैकादशिनी प्रकृतिविकृतिताधारण्येन विकल्पते । यूपसंस्कारविषय भापस्तम्बः-सर्वेषार शकलाहरणावश्चनहोमा इति । उपशयपानोवती पच्छिनत्ती- त्युक्तं तत्र च्छेदनार्था धर्मा आज्यशेष त्रुवं चाऽऽदत्त इत्यादयोऽत्यन्यानगामित्याद. यश्वाच्छेदनान्ता एकैकस्य यूपस्याऽऽवर्तन्त । विभवन्ति तन्त्रमनान्यविभवन्ति प्रत्य- क्षार्थानि प्रतिसंस्कारमभ्यावर्तन्त इति परिभाषास्त्रात् । मानं तक्षणं चैकैकस्य सर्वेषां प्रथमशकलपाताहरणमवटार्थत्वान्नोपशयस्यावटाभावात्तस्य सर्वत्र स्थावाहुतिः । स्पष्ट- मध्येतदुक्तमापस्तम्बेन-सषा शकलाहरणावश्चनहोमा इति । शकलस्यावरसंस्का- रार्थत्वादनवटस्योपशयस्य न शकल उपशयस्यावनिक्षेपणाभावात्सर्वस्यैव तक्षणं नोपरार्थमवशेषणमित्यर्थसिद्धमिति सूत्रकृता नोक्तम् । आपस्तम्बेन स्पष्टमेतदुक्तं सर्व. मुपशयं तक्षतीति । उपशयशब्दार्थस्तु तत्तयूपस्योप समीपे शेत एव नावट स्थाप्यत इति । पानीवतमपि तथैव छिनत्ति । तस्यास्त्येवोपरः । अधोनाभिमित्यग्रे वक्ष्यमाण- त्वादधोनाभिसमितो यथा भविष्यति तावत्परिमाणं छिनत्ति । अचषालमित्यने वक्ष्य- माणत्वाञ्चषालरहितः।

दशरथाक्षामेकादशोपराꣳ रज्जुं मीत्वा तस्याश्चतुर्विꣳशेन भागेन वेदिं विमिमीते प्रक्रमस्थानीया भवति ।

वेदिमानकाले चतुरधिकशताङ्गुलां रज्जु दशकृत्वोऽभ्यस्तां कृत्वैकादशोपरां रग्नु तस्यामुपसमस्यति यावति देश एकादशयुपमूलानि स्थास्यन्ति तावती रज्जरेकादशो. १.अ. ज. स. न. विकल्पन्ते ।।