पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०४ सत्याषाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने-

उत्तमस्य पर्यायस्य मध्यमेऽभिषवे बृहद्बृहदित्यभिषुण्वन्ति ।

अत्राभिषण्वन्तोत्यस्य पुनर्वचनमत्र बृहबृहदित्यभिषवमन्त्र एवायं न तु संराधनमा. घम् । तेनात्र मन्त्रान्ते क्रियेति सिध्यति पूर्वत्र तच्चारणसमकालोऽभिषव इति भेदः ।

उत्तमेऽभिषवे सुसंभृते राजनि ।

उत्तमेऽभिषवे सुसंमृते राजनीत्यनेनोत्तमेऽभिषवे सर्वस्मिन्सोमरसे निर्गते प्तमृति सुसंभृते राजनीत्यर्थः । उत्तमेऽभिषव इत्यनुक्ते प्रत्यभिषवं यत्सुसंमरणं तंत्र सर्वत्रापि स्यात्तनिवृत्त्यर्थम् । मुसंभृते राजनीत्यनुक्तंऽभिषयोत्तरं सुसंभरणारपूर्वमेव स्यात्तनिव. त्यर्थम् ।

देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुरेन्द्रमचुच्यवुः परमस्याः परावत आऽस्मात्सधस्थादोरोरन्तरिक्षादासुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षाꣳस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ।

अनुमोदन कीडारूपेण लालनं क्रीसमापनयुक्तमनपठनम् । तच चतुर्णामपि पृथक्पृथक् । सकदेव मन्त्रः । बहुवचनलिमात् । तत उपरे प्राणः संमुखाकृत्वे. त्यादि मावस्वध्यूहनान्तं करोति ।

अत्र सवनीयानां निर्वपणमेके समामनन्ति ।

अत्रास्मिन्काले । अति वचनानोत्तरत्र विहितका न च पूर्वत्रापि तेन पूर्वोऽपि कालोऽस्तीति गन्यते । स चोक्तो बौधायनेन- -प्रातःसवन एव सर्वसवनीयानिपत्कृ. तान्तात्पौरोडाशिकं कर्म प्रत्यादीतोत्तरयोः सवनयोरनुप्तवनमध्यूहनेनैव कपालेषु प्रति- पधेत सिद्धमत अमिति तथा नु खलु माध्यंदिनीयाः सवनीया निरुप्यन्त इति क्षुल्लकवैश्वदेवस्य स्तोत्र इति ब्रूयात्ततीयसवने सवनीया इति माहेन्दस्य स्तोत्र इत्येव घूयादिति । अनुसवनमगाराध्यूहनेनैव प्रतिपद्यते । प्रातःसवनोपहितेष्वेव कपालेषुत्तरयो.. ईयोः सवनीययोरधिश्रयणमित्यर्थः । क्षुल्लकवैश्वदेवस्य स्तोत्र इत्याज्यानामादिमे स्तोत्र इत्यर्थः । तृतीयसवनसंबन्धिसवनीयाः क्वेत्याशङ्कायां माहेन्द्रस्तोत्र इति माहेन्द्रस्तो. अस्प काल इति तदर्थः । एतावता कालत्रयसत्वं सिध्यति ।

धाराग्रहकाले शुक्रामन्थिनावेवाग्रे गृहीत्वाऽऽग्रयणं तिसृभ्यो धाराभ्यो गृह्णात्याधवनीयात्तृतीयां धारां करोत्युक्थ्यं गृहीत्वा ।

जवध्यं गृहीत्वस्यनन्तरं प्रतिप्रस्थातारं मरुत्वतीयममहणे महत्त्वार्थ संनिहितं करोतीति शेषो स्यब्बोधितसमानकर्तृकतानिहाय | आधवनीयान्तृतीयधाराकरणमुदचनेन । अत्र च. तत्स।