पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपीनाथमकृतज्योत्साव्याख्यासमेतम् ।

अथ नवमः प्रश्नः ।

तत्र प्रथमः पटलः ।

अभिषवादि माध्यंदिनꣳ सवनं तायते ।

अभिषवो महाभिषवः स अदिर्यस्य तदभिषवादि माध्यंदिनं सवनं तायत आर- म्यते क्रियत इति यावत् ।

तस्य प्रातःसवनेन कल्पो व्याख्यातः।

सस्य माध्यदिनस्य सवनस्य प्रातःसवनेन कल्पः प्रकासे व्याख्यात उक्त इत्यर्थः ।

द्विदेवत्यर्तुग्रहैन्द्राग्नवैश्वदेवा दर्विहोमाश्च न विद्यन्ते ।

प्रातःसवनिकरवे तेषां प्राप्ती निषेधोऽनेन कियते । दधिग्रहादयोऽन्तर्यामान्ता दविहोमास्ते च न. विद्यन्ते ।

वसतीवरीभ्यो निषिच्य निग्राभ्याः करोति ।

वसतीवरीभ्यो होतृचमसे निषिच्य नितरां सिकन्वा वसतीवरीम्यो होतृवमसेनापो गृहीत्वा निग्राभ्याः स्थेत्यनेन निग्राभ्याः करोतीत्यर्थः ।

सर्वꣳ राजानमभिषुण्वन्ति ।

तृतीयसवन ऋजोषममिषुण्वन्तीति श्रुतेस्तृतीयसवने सोमाभिषव एक नास्तीति भावः।

ग्रावस्तुते सोमोष्णीषं प्रयच्छति ।

वित्रस्य राजानमिति शेषः । विस्त्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छतीति । तथैवापठदापस्तम्बः-राजानमुपनद्धं तूष्णी पावसूपावरोह बन्धनाद्वित्रस्य अजी- न्यप्य तञ्चर्म परिमृज्य सर्व राजानमुपरे न्युप्य सोमोपहनने वासो प्रावस्तुते प्रगच्छनीति । इदं च न दानं किंतु पुनस्तस्मात्प्रत्यादेयमेव तस्य प्रज्ञातं निधा- मम् । सोमोपहननं वासो यजमानः परिधत्त इत्यने प्रतिमतिदर्शनात् । सोमपरिश्र- यणवाससोऽपि प्रज्ञातं निधानम् । सोमपस्श्रियणं पत्नीत्येतस्याप्यने प्रतिपत्तिदर्श- नात् । असंप्रेषितो ग्रावस्तोत्रीया अन्वाहेत्यायस्तम्बः । ग्रावस्तोतेति. शेषः । न पाव- स्तुते सोमाभिषवे प्रैषोऽस्तीत्यर्थः । प्रातःसक्नेन कल्पो व्याख्यात इत्यनेन महामि. षमधस्ताश्चर्मणों षयोऽपि तद्वत् । तत्र विशेषमाह-

इहाइहेति सꣳराधयन्तोऽभिषुण्वन्ति ।

इहाइहेति उच्चैर्वदन्त इत्यर्थः । संशब्दात्पुनःपुनरानेडनमेतस्य. शब्दस्य यावद- मिषवं न तु द्विवारमेव पठनम् ।

  • उमयतीति ज.म. पुस्तकयोः पाठः ।