पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ". सत्यापादविरचितं श्रौतसूत्र- [नवमप्र-

अप्तोर्यामेण पशुकामः।

पशवो गवाश्चादयः।

तस्यातिरात्रेण कल्पो व्याख्यातः ।

तस्याप्तोर्यामस्य कपः प्रकारो व्याख्यात उक्तः ।

संधिचमसानुन्नयꣳश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

गतापम् ।

चत्वारश्चमसगणाः स्तुतशस्त्रवन्तो होतुर्मैत्रावरुणस्य ब्राह्मणाच्छꣳसिनोऽच्छावाकस्य च ।

चतुर्ग्यश्चमसगणेभ्यो रानानमतिरेचयतीत्येतावतेव गणचतुष्व सिद्ध पत्यारचमस. गणाः स्तुतशस्त्रवन्तो होतुर्भेत्रावरुणस्य ब्राह्मणाच्छ सिनोऽच्छावाकस्य चेतिवचनं राजातिरेककाले चत्वारश्चमतगणाः स्तुतशस्त्रवन्त एको गणों होतुद्धितीयो मैत्रायह- णत्य. तृतीयो ब्राह्मणाच्छंसिनश्चतुर्थोऽच्छावाकस्येतिस्मरणावश्यकत्वार्थम् । अन्यस्य प्रयोजनस्यामावात् ।

तेषाꣳ संधिचमसैः प्रचरणकल्पो व्याख्यातः ।

पष्टम् । मत्राऽऽपस्तम्लेन विशेष उक्तः- -आग्नेवाप्रपमानुन्नयस्यैन्द्राद्वितीया. वैश्वदेवास्तृतीयान्वैष्णवाचतुर्थीनिति । चमतगणानामेतानि विशेषणानि । ताननि- निवृता स्तोमेन नाऽऽमोदित्याद्यर्थवादोक्ता अग्न्यादय एव तस्य तस्य चमसगणस्य देवता इति भावः । अन्योऽपि विशेषस्तनैवोक्त:-तेषार संघिचमसवत्प्रचरणकरूप इस्येक इति । अथवा संधिचमतवदेवाऽऽश्विनान्येव सर्वेषां स्तुतशस्त्राणि भवन्ति । संधिचमसविकारत्वादुत्तरेषां गणानामिति मावः । तद्क्तं बौधायनेन-तनु वा आहुः सर्वाण्येवाऽऽश्विनानि स्तुतशस्त्राणि स्युः पररात्रमतिरिच्यते यन्स तदाश्विनमिति पैकमयापरं त्रिवृत्पश्चदशं सप्तदशमेकर्विशमयतेषां देवता अग्निरिन्द्रो विश्वे देवा विष्णुरितीति । मरदानश्वाऽऽह-तत्र चत्वारि स्तोत्राणि शस्त्राण्याश्विनानि सयाग्या- म्यानातानि मवन्तीति । आश्वलायनेनापि शस्त्रसूक्तानि सयाज्यान्याश्विनान्येपो- क्तानि स्तोत्रियानुरूपास्त्वाग्नेय्यादयः कृता यथोमयमनुगृहीतं स्यादिति । तत्र संधि- घमसवकल्पोऽश्विम्या सोमानामनुब्रह्मश्चिम्या सोमानां प्रेष्येति संप्रेषौ नतक्यशा पम सोमानामिति । नच तिरोहियानामिति मवति संधितिरोधानामावादेषां सोमाना. मिति द्रष्टव्यम् ।

अतिच्छन्दाश्छन्दस इति भक्षमन्त्रꣳ संनमति।

आदित्यवद्गणस्य सोमदेवते मतिविवस्तृतीयस्य सवनस्यातिच्छन्दाश्छन्द इन्द्रपीत. स्पेति मन्त्र ऊहः कर्तव्य इत्यर्थः ।