पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सं-पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् ।

त्रिवृद्राथन्तरꣳ संधिस्तोत्रम् ।

त्रिवृच्छब्देन नवसंख्योच्यते । रार्थतरमिति स्वार्थेऽप्रत्ययः । नवावृक्ष रधंतरे गातव्यमुद्गातृभिरित्यर्थः ।

आश्विनꣳ शस्त्रम् ।

अश्विनी देवता यस्य तदाश्विनम् । अश्विदेवताक शस्त्र होता शंसतीत्यर्थः । तत्र परःसहसमित्यापस्तम्बाश्वलायनादयः ।

उदित आदित्य आश्विनं परिधाय होतृचमसमध्वर्युरादत्ते पुरोडाशं प्रतिप्रस्थाता च ।

उदिते सौर्याणि प्रतिपद्यत इत्याश्वलायनः । आश्विनं परिधायाऽऽश्विनशस्त्रस्य परिधानोत्तरं होतृचमसमध्वर्युरादत्ते पुरोडाशमाश्विनं पुरोडाशं प्रतिप्रस्थाता । अत्र चस्त्वर्थे । प्रतिप्रस्थाता चायुत्तरत्र प्रतिप्रस्थातृविधानेनाध्र्योः प्राप्तेरासिद्धा- पत्र वचनं पक्षे पर्यायत्रये सर्वपर्यायसंबन्न्यन्तिमगणद्वयसंबन्धिस्तोत्रशस्त्रोपाकर- णादावाश्विननिर्वापादिसादनात्प्राक्तनकर्मणि च प्रतिप्रस्थातृकर्तृकताऽप्यस्तीतिज्ञापना- र्थम् । तेनाऽऽपस्तम्बबौधायनभरद्वाजमूत्रैः सहाविरोधः सिद्धो भवति । परिधायेत्यत्रा- न्त वितणिजों विवक्षणीयः समानकर्तृकत्तनिर्वाहाय । अत्रैव प्रतिप्रस्थातृविधाना- त्पूर्वध प्रतिप्रस्थाापारो नेवास्तीत्यवगम्यते । तेन पक्षद्वयमत्र सिद्धं भवति ।

आददते चमसाꣳश्चमसाध्वर्यवः ।

होतृचमसव्यतिरिक्तांश्चमसांस्तत्तञ्चमसाध्वयंव आवरते होतृचमसस्याध्वर्युगोंss. तत्वात् । तस्य चमसाध्वर्युविरमति । गतम् ।

अश्विभ्यां तिरोअह्नियानाꣳ सोमानामनुब्रूह्यश्विभ्यां तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति संप्रेष्यति ।

संधिना तिरोहितेनाहि तायन्त इति तिरोभनियाः । इदं च सोमविशेषणम् ।

सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति ।

सर्वहुतं कृत्स्नम् । जुइपभृतावादाय प्रत्याकम्येत्यादि सर्व वर्तते । अपर्यावर्तनाइयो धर्मा नात्र भवन्ति । एककपालवाभावात् । वाचनिकै कृत्स्नावदानम् ।

पङ्क्तिच्छन्दस इति भक्षमन्त्रꣳ संनमति ।

आदित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य पत्रिच्छन्दस इन्द्रपी- सस्येति मन्त्रे संनाम उहः कार्य इत्यर्थः । १च. 'ता वेत्यु । २ च. णा गृहीतत्वा' । १२२