पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स पट:] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

एकविꣳशतिछदि सदः ।

नियमार्थमिदम् ।

न क्रतुकरणं जुहोति न द्रोणकलशꣳ रराटीं वोपस्पृशत्येतदेव यजुर्वदन्हविर्धाने प्रपद्यत एतावान्क्रतुकरणः ।

एतावान्यजुर्वदन्हविर्धानप्रपदनमेवेत्यर्थः । होम उपस्पर्शनं चेत्येतदुमयरूपाऽत्र न माझा क्रियेत्यर्थः । यथोक्ध्ये समुच्चयस्तथाऽत्र समुच्चयन्यावृत्तिरनेन क्रियते ।

सारस्वतीं मेषीमतिरात्रे चतुर्थीꣳ सवनीयामालभते मेषमित्येकेषाम् ।

सारस्वतः प्रचरणकल्पोऽत्र, ऐन्द्रे सारस्वत्यां च दार्शपौर्णमासिकः प्रचरणकरूप इति सूत्रात् । सर्वे यजप्रैषाः प्रधानेषु मैत्रावरुणव्यापारामाव इत्यर्थः ।

षोडशिनश्चमसानुन्नयꣳस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

षोडशिनः षोडशसंबन्धीश्चमसानुनयन्पर्यायत्रयं मिलित्वा द्वादश चमसगणा आश्विनसंबन्धी त्रयोदशश्चमतगण एवं त्रयोदश चमसगणास्तेभ्यस्तदर्थ राजानम- तिरेचयति अतिरिक्त करोति षोडशिनश्चमसानुन्नयन्निति पूर्वसूत्रे च नित्यवदनुवादा- नित्यः षोडशी प्रदश्यते । पूर्व तु काम्पतयोक्तः कथमिदमुभवं घटिप्यत इति चेत् । नात्र किंचिदुर्घटम् । दधिग्रहवन्नित्यस्यापि काम्यत्वाविरोधात् । कचित्तु पुनरत्र विरोधाच्छानान्तरदर्शनाच षोडशिनो वैकल्पिकत्वमातस्थिरे ।

तैः प्रचर्य रात्रिपर्यायैः प्रचरति ।

ननु तैः प्रचर्येत्यत्र समानकर्तृकत्वमनुपपन्नं घोडशिप्रचारस्याध्वयुमात्रकर्तृकत्वा- दाविपर्यायाणामुभयकर्तृकत्वादिति चेत्सत्यम् । स्वसूत्रे सर्वेषां पर्यायाणामप्यध्वर्यु- कर्तृकताया एवोक्तत्वेन समानकर्तृकत्वानुपपत्यभावात् । उभयकर्तृकत्वे हि समान. कर्तृकत्वानुपपत्तिः । सूत्र उत्तरयोः पर्याययोः प्रतिप्रस्थातुर्विधानामावान्नास्ति सा ।

उपयामगृहीतोऽसीन्द्राय त्वाऽपि शर्वरायेति मुख्यं मुख्यं चमसमुन्नयति ।

वीप्सा सर्वचमसगणार्या । उन्नतेति शेषः सामर्यात् ।

स्तुतशस्त्रे भवतः।

सष्टम् । ५ च. 'नरेतद्विरो ।