पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने- आ स्वा वहन्तु हरय इत्यारम्यावसानप्रणवक्रमेण व्यत्यासमवसान ओथामोद इव मद इति प्रणव मोदामोद इयोमथेति एवं क्रमेणानुष्टुभ्यः । अयमवधिरनुष्टुप्सु सिद्धः प्रतिगर इति सूत्राश्चम्यते ।

अनुष्टुप्सु सिद्धः प्रतिगरः।

प्रप्रवस्त्रिष्टुपमिषमित्यनुष्टुप आरम्य प्रसिद्धः प्रतिगर धामोद इव, श्यामोर इति प्रतिगर इत्यर्थः । एकवचनं जात्यभिप्राय प्रतिगर इति ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ॥ १९ ।।

शस्त्र प्रतिगोति वचनं दर्शितप्रयोजनम् । अव्यवधानार्थता वाऽप्यत्र | अदृष्टा- ताऽप्यत्र सूत्रपाठस्य ।

इन्द्राधिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति षोडशिनं जुहोति ।

वषट्कृतेऽनेन मन्त्रेण जुहोति । तूष्णोमेव होमोऽनुवषट्कारे ।

इन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतं तयोरनुभक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति ग्रहस्य भक्षयति ।

- ग्रहस्य षोडशिनो ग्रहस्य । ग्रहस्पेति षष्ठी द्वितीयार्थे । होत्रा षट्कारनिमित्त. ककृतभक्षं होमाभिषवनिमित्तं षोडशिनं ग्रहं भक्षयतीत्यर्थः ।

आदित्यवद्गणेन चमसानाम् ।

षोडशिनास्त्विन्द्रश्च सम्राडित्येव नित्यं पक्षमश्रः प्राकृतं मक्षणमा बाधित्वा । चमतांस्तु प्राकृतैरेव मन्त्रैर्मक्षयन्ति महीत्यादिभिर्यजमानादयः ।

अनुष्टुप् च्छन्दस इति भक्षमन्त्रꣳ संनमति ।

अनुष्टुप्छन्दस इति शब्दं जगतीछन्दस इत्येतस्य स्थाने योनयतीत्यर्थः । यथाss- दित्यवद्गणस्य सोमदेवते मतिक्दिस्तृतीयस्य सवनस्यानुष्टपूछन्दस. इन्द्रपीतस्येति मात्रो t भवति ।

अतिरात्रेण ब्रह्मवर्चसकामः ।

स्पष्टम्।

तस्य षोडशिना कल्पो व्याख्यातः।

तस्पातिरात्रस्य ।