पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० पटलः] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । ९६१

तैः प्रचर्य षोडशिना प्रचरति ।

अच्छावाकचमसमुख्यैश्चमतैः प्रचरतीत्येकवचनमध्वर्युमुख्यत्वाभिप्रायेण । बहुवच. नपाठस्त्वृजुरेव । ननु तैः प्रचर्य षोडशिना प्रचरतीतिल्यब्बोधितसमानकर्तृकत्वमनुपप- नम् । अच्छावाक चमसमुख्यानां चमसानां प्रचरणस्य प्रतिप्रस्थातृकर्तृकत्वात्षोडशि. प्रचारस्याध्वर्युकर्तृकत्वादिति चेत्सत्यम् । तैः प्रचर्येत्यनन्तरं प्रतिप्रस्थातरि स्थित इति समानकर्तृकत्वनिर्वाहायाध्याहार आवश्यकः। अन्यथा समानकर्तृकत्वमनुपपन्नं स्यात् । बौधायनमतात्त सवने सवने गृह्णातीति पक्षे प्रथमे त्रयः क्रमात्तत्र तत्र सक्ने सवनग्रहणार्थी उत्तरे तु त्रयस्तैरेव विकल्पन्ते ।

समयाविषिते सूर्ये हिरण्येन बर्हिर्भ्यां च षोडशिनः स्तोत्रमुपाकरोति ।

समयाविषित आदित्येऽस्तं गच्छति सति स्तोत्रोपाकरणमित्यर्थः ।

श्वेतमश्वं पुरस्ताद्धारयत्यरुणपिशङ्गं कृष्णं वा ।

पुरस्ताच्छब्देन समीपप्रदेश उच्यते । उद्गातृभ्य इति शेषः । अरुणो लोहित. वर्णः । पिशङ्गो गोरोचनवर्णः । एतदुभयवर्णवानित्यर्थः । अश्वधारणप्रदेशनियमो लाट्यायनद्राह्यायणाभ्यामुक्तः-अश्वः कृष्णः पूर्वस्या५ सदसो द्वारि प्रत्यङ्मुखस्ति- ष्ठेदिति धानंजय्योऽपरस्यां प्राङ्मुख इति शाण्डिल्य इति । सर्वथा विहितवर्णाश्वस्या- भावस्तदोपाय उक्तस्ताभ्यामव-तदभावे यः कश्चनेति । उक्तवर्णाश्वस्याभावे यः कश्चन नास्मिन्वर्णनियमः । यदि तु सर्वथाऽश्वस्यैवाभावस्तदा प्रतिनिधिरुक्तस्ताभ्या- भेव गौर्वाऽनो वाऽश्वाभाव इति । गौरव बलीवर्द एव स्त्रीत्वसानात्यात् ।

हिरण्यꣳ सांप्रदायꣳ स्तुवते ।

अध्वर्युणा दत्तं हिरण्यं संप्रदाय संप्रदाय स्वस्वभक्तिगानकाले परस्परं संप्रदाय संप्रदाय स्तुवते । उद्गातार इति शेषः सामर्थ्यात्। लाट्यायनद्राह्मायणाम्यामपि उक्तम्- यो यः सामाङ्गं ब्रूयात्स हिरण्यं धारयेदुद्गाता निधनमुपयत्सु सर्वे वाऽभिमशेयुरिति ।

हरिवच्छस्त्रम्।

भवतीति शेषः । हरिपदसमुदाय_टतं शस्त्रं भवतीत्यर्थः ।

उपरिष्टात्स्तोत्रियानुरूपाभ्यामोथामोद इव मदेमदामोद इवोमथेति व्यत्यासं प्रतिगृणाति ।

यासूद्गातृभिर्गानं कृतं ता ऋचः स्तोत्रिया उच्यन्ते । तदुत्तरभूता ऋचोऽनुरूपा उच्यन्ते । एताम्य उभयौम्य ऋग्भ्योऽनन्तरमोथामोद इव मदेमदामोद , इवोमथेति । १६. ज. स. न. 'यन्त्यरु। २ क. ग. च. ढ. 'दाय्य ।