पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1

९६० सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रभे-

सप्तदशछदि सदः ।

नियमविधिरयम् ।

पात्रसꣳसादनकाल उत्तरेऽꣳसे खादिरं चतुःस्रक्ति षोडशिपात्रं प्रयुनक्ति ।

आमिष्टोमिकपात्रसंसादनकाले सत्रासादनानन्तरमागन्तुनःमन्ते निवेश इति न्यायनान्ते यथावकाशं कस्त्वेति मन्त्रेण प्रयुनक्ति । तेषां यान्यनादिष्टवृक्षाणि विक- तस्य तान्यहोमार्यानि तु वारणस्थेत्यनेन होमार्थत्वाद्वैकङ्कते प्राप्ते तधनाय खादिरमिति । उलूखला कारता प्रकृतितः प्राप्ता सा चतुःस्रक्तीत्यनेन बाध्यते ।

ऋतुकरणꣳ हुत्वैतेनैव मन्त्रेण द्रोणकलशꣳ रराटीं वोपस्पृशति ।

स्पष्टम् ।

ऐन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सवनीयमालभते ।

वृष्णिपः । पोडशिग्रहणप्रयोजनं तनीयग्रहणप्रयोननवत् ।

आतिष्ठ वृत्रहन्नित्येतेषामेकेन षोडशिनं गृह्णाति ।

एतेषां षण्णां मन्त्राणामेकनान्यतमेन मन्त्रेण ।

पुरस्तादुत्तमादुक्थ्यपर्यायात्पूर्वयोः सवनयोर्द्रोणकलशाद्गृह्णाति सर्वैरुक्थ्यपर्यायैः प्रचरित आग्रयणात्तृतीयसवने ॥ १८ ॥

पूर्वयोः सवनयोः प्रात-सबने माध्यदिने सवने च । अन्यत्स्पष्टम् ।

यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते ।

सर्वेषु ग्रहणेवित्यनेन ग्रहणं ग्रहणं प्रत्यभिमन्त्रणम् ।

अच्छावाकचमसमुख्याꣳश्चमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति ।

पाख्यानं गतार्थम् । १०. स. सेवते।