पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९५९ n य अत्र विशेषमाह-

अग्निष्टोमचमसानुन्नयꣳस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ।

अग्निष्टोमचमसोन्नयनकाले त्रिभ्यश्चमसमणेभ्यश्चमसगणत्रयार्थ रामानमतिरेचयति अतिरिक्तं करोति ।

सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति च लुप्यते ।

चस्त्वर्थेऽत्र । अधैतदुपयोगिपरिभाषामारचयति-

एतदग्निष्टोमचमसानाꣳ संप्रैषस्य यो य उत्तमः सꣳस्थानचमसगणस्तमुन्नयन्नेतत्संप्रेष्यति ।

एतत्सर्वर रानानमुन्नय माऽतिरीरिचो दशाभिः कलशो मृष्ट्वा न्युन्जेत्येतत्सप्रैषस्यै- घोऽशो यो य उत्तमः संस्थानचमतगणः संस्थासमापनभूतश्चमसगणस्तानुनयंस्तत्र वक्तव्य इत्यर्थः । यो य इति वीप्सा सर्वक्रतुसंस्थानचमसगणविषयत्वं बोध- यितुम् ।

अग्निष्टोमचमसैः प्रचर्य त्रिभिरुक्थ्यविग्रहैः प्रचरतो यथा पुरस्तात् ।

यथा पुरस्तादित्यनेन सर्वोऽपि प्रातःसवनिको विधिः प्राप्यते । अत्र विशेषमाह--

इन्द्रावरुणाभ्यां त्वेति प्रथमो ग्रहणसादनौ संनमतीन्द्राबृहस्पतिभ्यां त्वेति द्वितीय इन्द्राविष्णुभ्यां त्वेति तृतीये।

स्पष्टम् ।

षोडशिना वीर्यकामः।

वीर्य बलम् ।

तस्योक्थ्येन कल्पो व्याख्यातः।

तस्य षोडशिनः।

तस्य शुण्ठ्याऽधीलोधकर्णया सोमं क्रीणाति ।

अधिकारादेव षोडशिनः प्राप्तौ तस्येतिवचनं काम्यत्वपक्ष एवैतादृशसोमकयो न नित्यत्वपक्षे । एतस्माज्ज्ञापकादपि नित्यत्वमप्यवमम्यते । शुण्ठाऽल्पकाया ह्रस्वेति यावत् । अधीलोषक चक्षुपोरधि उपरि लम्बमानकर्णा कर्णस्योपरि वर्णान्तरं यस्या.. इति वा।