पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[९५०पठछः] गोपीनाथमकृतज्योस्वाग्याख्यासमेतम् । त्रम् । अनन्तरे काले दशहोत्रादिधर्मेण यावज्जीवसंकोनाऽऽरब्धव्यमिति । जमिनि- नाऽपि उक्तं षष्टाध्याये सप्तमे पादे दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुस्कर्षः प्राप्तकालत्वात् । उत्कर्षो वा दीक्षितत्वादविशिष्टं हि कारणमिति । दैवादवभृयो. स्कर्षे दीक्षाकालस्य शिष्टत्वादसमाप्तरवान्नियतानामतिक्रमेऽप्यनुत्कर्षः प्राप्तकालत्वा- दिति पूर्वसूत्रार्थः । वाशब्दः पूर्वपक्षव्यावर्तकः । दीक्षितत्वाद्दोक्षाया अनुन्मुक्तत्वा- दुत्कर्ष एव हि यस्मादविशिष्टं पूर्वेण तुल्यमेव कारणमत इत्यर्थो द्वितीयसूत्रस्य । स एव तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् । कालपाधान्याच । तत्र दैवादुदवसानी. येष्टयुत्कर्षे यथा पूर्वेषां यथाऽवभृथेष्टेः पूर्वतना होमास्तेषां प्रतिहोमो न विद्यते तथा दैवात्कृष्टाया उदवसानीयाया उत्तरेषामपीति प्रथमसूत्रार्थः। कालप्राधान्यात् । सा यावद्रात्रौ कियद्रात्रेण वा संनिष्ठते तव सायमग्निहोत्रं जुहुयादिति कालपाधा. न्यादपि प्रतिहोमो न विद्यत इति द्वितीयमूत्रार्थः । अन्यच्च जैमिनिः-प्रतिषेध ऊर्ध्व- भवभृथाविष्टेरिति । अवधेष्टरूमिष्टेः प्रकृति भूतायाः प्रतिषेध इत्यर्थः । अन्यत्र स एवाऽऽह प्रतिहोमाश्चेत्सायमग्निहोत्रप्रभृतीनि हुयेरनिति । प्रातस्तु पोडशिनीति पादेवान्मानुषाद्वा विलम्बादुतरेधुरुत्कृष्ट। यद वसानीया तदोत्तरस्यवादः सायं होमः कर्तव्यो न पूर्वस्य । अव/गुदवसानीयेष्टेरमिहोत्रेऽनधिकारात् । अयमर्थ एताभ्यां मैमिनिसूत्राभ्यां लभ्यते । श्रुतिरपि-एतया पुनराधेय समितये श्वेष्वाऽग्निहोत्रं जुहुया. दिति । सर्वप्रायश्चित्तं तु होतव्यम् । उदवसानीयोत्कर्षात् । पत्र तु क्रतुवश दुल्क- स्तित्र न प्रायश्चित्तम् । यथाऽतिराने । भारद्वाजस्तत्राऽऽह-मुत्यावदग्निहोत्रप्र. समिहोत्राण्यतिपन्नानि प्रतिजहुयान्न वा प्रतिजुहुयादिति ।

संतिष्ठतेऽग्निष्टोमः ॥ १७ ॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने षष्ठः पटलः।

संतिष्ठतेऽमिष्टोम इति वचनमग्निहोत्रद्वयस्य सोमाङ्गत्वं वक्तुम् । अर्थः स्पष्टः । इस्पोकोपाहश्रीमदमिष्टोमयाजिप्साहस्राप्रियुक्तपाजपेययाभिसर्वतोमुखया- मिद्विसाहस्रामियुक्तपौण्डरीकपाजिगणेशदीक्षिततनूजगोपीनाय. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशिसू. वाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवयः मनस्य षष्ठः पटलः ॥४॥