पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - सत्याषाढविरचितं श्रौतसूत्र- [ नवमप्रमे

प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वोदवसानीयामिष्टिं निर्वपत्याग्नेयमष्टाकपालं पञ्चकपालं वा ।

उदवसानाष्टिरुदवसानीया सां निर्वपतीत्यर्थः । अग्न्यन्वाधानादिबामणतर्पणानते. पमिष्टिः । अष्टाकपालपक्षः शाखान्तरीयः पश्चकपालपक्षः स्वशाखागतः । भत्र विशेषमाह-

तस्योपाꣳशु सर्वं क्रियत ओत्तमादनूयाजात् ।

तस्याष्टाकपालस्य पश्चकपालस्य वा। सर्वमित्यनेन सबसहितस्य सर्वस्य प्रधान- स्थाऽऽश्रावणप्रत्याश्रावणतषादिसहितस्योपांशुता विधीयते । परप्रत्यायनं संज्ञया । भा, उत्तमानूयानात् । अत्राऽऽङ्मर्यादायाम् । तेनोक्तमादनूगाजास्पामित्ययमों भवति । उत्तमान्यानप्रभृति प्राकृत एव स्वर इत्यर्थात् । अत्राऽऽपस्तम्बो हौके विशेषमाह -यदि पश्चकपालो गायको संयाज्ये यद्यष्टाकपालः पतयः वित्ति । दक्षि. णाविशेषोऽपि तेनोक्तः- अनड्वान्दक्षिणाऽनडुदई वा हिरण्ममिति । आश्वलायने नापि पौनराधेयिक्या धर्मा उक्ताः-पौनरायिक्यविकृतेति ।

उरु विष्णो विक्रमस्वेति पूर्णाहुतिमेक उदवसानीयायाः स्थाने समामनन्ति ।

द्वादशगृहीतेन स्वचं पूरयित्वाऽन्तर्धस्तिष्ठन्नित्यापस्तम्बः ।

सा यावद्रात्रौ कियद्रात्रेण वा संतिष्ठते तदैव सायमग्निहोत्रं जुहुयात्काल एव प्रातर्होमः ।

सेष्टिरुदवसानीया । यावती चासो रात्रिश्च यावद्रात्रिः । तत्र रात्रिद्विविधा महती, अल्पा च । एतयोरुभयोरपि राज्योः कियद्रात्रेण वा प्रतिष्ठते । किदित्यनेन कालानियमः सूच्यते। कियात्रियंत्र स कियद्रातः कालः । यदा संतिष्ठते तदैव सायम- मिहोत्रमतिपन्नकालमपि जुहुयात्। गौणकालानतिपातात्। प्रात) में त्यागामिनं सकाळ एवं जुहोति । नन्वस्मिन्काले कः प्रप्तङ्गः। अस्ति प्रसङ्गः । उदवसानीयान्ते सायंप्रात- राहुतिरिति श्रुतेः । सूत्रकारमताच्च । यथाऽऽह बौधायनः-सायंप्रातरग्निहोत्रे प्रतिजुहो. तीति । सूत्रकाराभिप्रायस्तु मायमाहुतिश्रुतिस्तावन्नित्याया एव सायमाहुतेरतीतका. लाया गौणकालानुज्ञार्था । प्रातराहुतिश्रुतिरपि प्रसङ्गादाविन्याः प्रातराहुतेरनुवा. दिका नत्वपूर्वाग्निहोत्रविधायिकेति । अत एवोक्तं काले प्रातह)म इति । केचित्तु अग्नि- होत्रद्वयमिदं सोमाझं संतिष्ठतेऽग्निष्टोम इत्युत्तरत्र वचनादिति प्राहुः । तथा चोदव- सानीय प्रकृत्याऽऽह कास्यायनः-तदन्ते सायमाहुतिः सोमाझं संनिध्यविरोधाम्यां नित्या वा प्रातराहुतेरिति श्रुतेरिति । एतेषां मतेऽनारब्धेऽग्निहोत्रेऽपि कसम्पममिहो-