पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५४ 'सत्याषाढविरचितं श्रौतसूत्रं- [एनवमप्र- त्यनेन द्रव्योत्पादकानि पावन्ति कर्माणि तावन्त्येव कर्तव्यानि नान्यन्वाधानादितंत्र- मिति सूच्यते । लौकिकेन दध्नवाऽऽमिक्षाऽत्र | सायंदोहावचनात् । खण्डेष्टिरामिक्षा समाख्याता । ततो देविकाहविषा यागः । अन्यान्वाधानादिब्राह्मणतर्पणान्तकर्मकला- पेन()। उभयोस्तन्त्रं तु न भवति । स्वरूपविरोधात् । आपस्तम्बस्त्वत्राप्येतेषामनुनि- पिमिच्छति तामनु देविकाहवोषि निर्वपतीति । बौधायनोऽत्रानुग्रहमाह-आज्येन देविका यदित्याञ्जीगविरिति । भरद्वाजोऽन्याह-आमिक्षां करिष्यन्नाज्येन देविका इति । आज्यपक्ष उमांशुयानधर्मेण यागः । निर्वापक्षेत्रापि समानं स्विष्ट कृदिडम् । तथा चाऽऽपस्तम्ब आमिक्षायागं प्रकृत्य समानं तु स्विष्टकृदिडमिति । समपि स्वीकार्यमशक्तौ । एवकाराश्रवणात् ।

सदोहविर्धानानां प्रथमकृतान्ग्रन्थीन्विस्रस्योदीची हविर्धाने बहिर्वेदि निर्वर्त्य ।

सदश्च हविधीने च सदोहविधानानि तेषां सदोहविर्धानानां हविर्धानयोर्दक्षिण- मणाऽऽहवनीयमुनीत्वा बहिदि निर्गमयति अव्यवासार्थम् । प्रथमं कृताः सदसो हविर्धानस्य हविर्धानयोश्च ये ग्रन्थयस्तान्तिस्त्रस्य । एतेन ज्ञायते प्रथमग्रन्थयः प्रज्ञाता भवन्तीति । यं प्रथमं ग्रन्थि प्रश्नीयाधत्तं न विलमयेदोहेनावयुः प्रमी- येत तस्मारस वित्रस्य इति श्रुतौ दोषश्रवणादावश्यक प्रन्थिविसंतनम् । अमेहेन मूत्रनिरोधनेत्यर्थः । उदीची उदगमे निर्वाव्यवायेन निष्काश्य ।

यत्कुसीदमप्रतीत्तमित्याहवनीयाद्वेदिमुपोषति ।

वेदिमुपोषतीत्यत्र स्तृतबहिषा वेदेवाहन स्वरूपनाशासंभवाल्लक्षणया तत्स्थं कहिल. क्ष्यते । तेन वेद्यां स्तीर्णस्य बहिषो दाहः सिध्यति । न च्छाप्यपि । यदोषीमि. दि स्तृणाति यदनुपोष्य प्रयायादिति ब्राह्मणेन स्तोर्णस्य वहिष एव दाहविधानात् ।

प्राग्वꣳशे गार्हपत्यात्पत्नी।

एतस्मादेव सूत्राज्ञायते-उदयनीयेष्टिबर्हिषः प्रहरणं नैव समिष्टयजुहोमे । अप्रह- तस्योदयनीयोष्टबर्हिष उपोषणं पत्न्या कार्यमिति । उप मुष दाह इति धातुर्दाहेऽर्थे वर्तते । उपशब्दः समीपेऽवस्पानार्थः ।

एतꣳ सधस्थ परि ते ददामीति तिसृभिर्धूममुद्यन्तमनुमन्त्रयते।

बहिर्दाहजन्यं धूममुद्यन्तमुदूर्व यन्तमनुमन्यत इत्यर्थः ।

विश्वलोप विश्वदावस्य त्वा संजुहोमीत्यञ्जलिना सक्तून्प्रदाव्ये जुहुयाद्यदि मिश्रमिव चरित्वा मन्यते ।

सक्तुशब्दो यपिष्टेषुः रूदो नित्यं महुवचनान्त: शनसामाव्यात् । अत्र मणि.