पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T हरप पटलः] गोपीनाथमहकृतज्योत्स्नाण्याख्यासमेतम् । ९५१ प्रथमं याति पथ्या स्वस्तिमुत्तमामिति । यत्र देशे या देवता प्रागिष्टा तत्रैव तां पजतीत्यापस्तम्बमूत्रार्थः । अन्यश्च विशेष उक्त आपस्तम्बसूत्रे-याः मायणीयस्य याज्या इत्युक्तमिति । पाग्यानुवाक्यानां विपर्यासोऽपि ब्राह्मणोकोऽनुसंधेय इत्याप. स्तम्बसूत्रार्थः ।

न स्थालीं निष्कासं मेक्षणं च निदधाति ।

भन्ने प्रयोजनामावादिति भावः ।

न ध्रुवायाः शेषं करोति ।

भयोजनामावात्।

कृत्स्ना संतिष्ठते।

शयमस्वव्यावृत्त्यर्थमिदं वचनम् ।

अनुबन्ध्यायास्तन्त्रं प्रक्रमयति ।

अत्र तत्रं प्रकायतीतिवचनमुदपनीयासमाप्त्यव्यवहितोत्तरमेव तन्त्रप्रक्रमः कर्तव्य इत्येतदर्थम् ।

तस्या निरूढपशुबन्धेन कल्पो व्याख्यातः ।

तस्या अनुबन्ध्याया निरूढपशुबन्धेन्द्रामेन सौर्येग प्राजापत्येन वा कल्पः प्रकारो व्याख्यात उक्तः । यज्ञमनु यज्ञसमाप्तिमनु बध्यत इत्यनूपन्ध्या दीर्घ आवः । षड्ढोता पश्विष्टिश्चाङ्गमते न विद्यते इतिसूत्रारषड्डोतृपश्चिष्टी न स्तः ।

मैत्रावरुणीं वशामुपाकरोति ।

वशा वन्ध्या । सा च गौः । तथा चाऽऽपस्तम्बेन गोपघटिताव प्रैषावुक्तौ- मित्रावरुणाम्यां गावपाया मेदसोऽनुबाहे मित्रावरुणाभ्यां गोर्वपाया मेदसः प्रेष्येति संघषाविति । उमयोवंशागोशब्दयोरपि वा प्रयोगः । पशाशब्देनेदमपि ज्ञायते गोशब्देन स्त्रीजातिरत्र गृह्यत इति । हषिरवदानप्रेषविषयेऽप्यापस्तम्ब:-एवमवदा- नेषु हविष इत्यन्तौ नमतीति । वपाया मेक्स इत्येतस्य स्थाने हविष इत्यूह इत्यर्थः । पञ्चपशूनां मध्ये घ्यक्षरोज़संख्यकाक्षरवादग्नीषोमीय एवैतस्याः प्रकृतिः । तेनानीपो. मीय तद्विकारेषु घाऽश्ववाल: प्रस्तर ऐसवो विधृती कामयमयोऽधि(!) का पौतुदारवे. म्योऽमुष्मा अमुष्यः वपाया मेदसः प्रेष्यामुष्मै पुरोडाशस्य प्रेष्यामुष्मा अमुष्य हविषः प्रेष्येत्येतसूत्रोपाना धर्मा. अत्र मवन्ति । अत्र स्त्रीपशुत्वादसुष्मा इत्येतस्य स्थानेऽ. मुल्या इत्यूह इति विशेषः। .