पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SYG सत्यापाठविरचितं श्रौतसूत्र- [९नवमप्रो-

9.6 अथ नवमप्रश्ने षष्ठः पटलः ।

प्राग्वꣳश उदयनीयायास्तन्त्रं प्रक्रमयति ।

प्राग्वंशमात्रांशे विधानम् । तवं पक्रमपतीत्यनुमानः | प्राशविधानम् । एषोऽ. त्राऽऽहवनीयो यतः प्रणीयते स गाईपय इति शालामुखीय गार्हपत्यकर्मम्योऽन्न- वस्यन्ति तत्र गार्हपत्यकर्माणि क्रियन्त इत्येताम्यां सूत्राम्यामौतरवेदिकामिराहवनीयः शालामुखी यो मार्हपत्य इति प्राप्तं तयोर्यावृत्तिः क्रियोऽनेन । तेन प्राकृतेष्वेवानि- दयनीति सिद्धं भवति । तत्रं प्रकम यतीत्यनुवादोऽस्यामिष्टावपि हौत्रविषये नास्त्यपूर्वता किंवावयवनिषय एवेत्येतदमेव तत्रं प्रक्रमयतीतिवचनम् ।

तस्याः प्रायणीयया कल्पो व्याख्यातः ।

सस्या उदयनीयायाः प्रायणीयया कल्पः प्रकारोऽन्यन्वाधानादिको व्याख्यात उकः।

अनूयाजसमिधमुपसंनह्यति ।

अत्रेतावान्विशेषः प्रायणीयातः । अर्थः स्पष्टः ।

यस्याꣳ स्थाल्यां प्रायणीयꣳ श्रपयति तस्याꣳ सनिष्कासायां तेन मेक्षणेन श्रपयति ।

सनिष्कासायामित्यस्यायमर्थ:-निष्कासममि निरुतहाविष्कापामिति । तेन न श्रुतिः विरोधः ।

पत्नीꣳ संनह्यति ।

योक्त्रस्यास्मृथे त्यक्तत्वादिति भावः ।

न जुह्वामाज्यं गृह्णाति यदि प्रयाजा न भवन्ति ।

स्पष्टम्।

कृताकृताः प्रयाजाः ।

एतस्था इष्टेः कृत्स्नत्वेऽपि प्रयाजान्यानानां कृताकृतत्वमेवेतिज्ञापनार्य यदि प्रयाना न भवन्तीत्येतावव पाक्षिकत्वेऽगते कृताकृताः प्रयाजा इति वर्चनम् । सत्र देवताक्रमे विशेषमाह-

पथ्याꣳ स्वस्तिमुत्तमामाज्येन देवतां यजति ।

अग्निः सोमः सविता पथ्या स्वस्तिरदितिरिस्येवं देवताकमोऽत्रेत्ययं विशेषः । देशकमस्तु तत्तद्देवतानुरोधेनैव । तथा पाऽऽपस्तम्बः-तेष्वेव देशेष्वग्निमाग्यमागानां - १च. चनं स्पष्टार्थम् । २. ज.स.म.उ. वेवता ।