पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ९४७

प्रत्यस्तो वरुणस्य पाश इत्युदकान्तं प्रत्यस्य ।

अन्तिमसीमास्थमुदकं पादाण प्रत्यस्येत्यर्थः । अमुमर्ममाह मौधायन:--पराम- वृत्तः प्रपदेनोदकान्तं प्रत्यस्यतीत्यर्थः (स्येति) । प्रत्यस्येति ल्यपोऽप्रतीक्षमायन्तीत्यत्रा- स्वयः । बहुवचनात्सर्वकर्तृकता प्रत्यसनेऽनवेक्षमाणाः प्रत्यायन्तीत्यत्र च ।

औदुम्बरीः समिधो धारयन्तः।

सर्व ऋविजो यजमानः पत्नी चेत्येककामोदुम्बरी समिधं धारयन्ति । समिध इति बहुवचनमनेककत्रभिप्रायम् ।

अपाम सोमममृता अभूमेति महीयां जपन्तः।

अपाम सोममित्यस्या ऋचः समाख्या महीयेति । संज्ञायाः प्रयोजनं व्याख्यात. मुन्नयन महीयेत्यत्रैतस्याः संप्रत्ययार्थम् । बहुवचनात्सर्वेषां जपः ।

उन्नेतारं पुरस्कृत्वाऽप्रतीक्षमायन्ति ।

पुरस्कृत्वा सर्वेषामने कृत्वाऽवभृथदेशमप्रतीक्षमप्रतीक्षमाणा आयन्ति विहार प्रति मागच्छन्तीत्यर्थः।

परोगोष्ठे मार्जयन्ते ।

गोष्ठी गवां वसतिस्थानं तस्य परः पुरोवर्ती यो देशस्तत्र मानयन्ते सर्व प्रविजो यजमानः पत्नी च । अत्र सुमित्रा न इति मन्त्रमाह भरद्वाजः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधति ।

तत औत्तरवेदिकेऽसौ गृहीता स्वां स्वामौदुम्बरों समिधमम्यादधति । आदौ यभमानः । ततः सर्व ऋस्विनः । तेनैव मन्त्रेणौत्तरवेदिकेऽनावेव ।

अपो अन्वचारिषमित्युपतिष्ठन्ते ।

समिदाधानक्रमेणोपतिष्ठन्ते ।

एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ॥ १५ ॥

अनन्तरं पाठान्सर्वेषामन्ते पत्नीकर्तृकाम्याधानमुपस्थानं च । एवमिति यथा समवे. णाम्याधानोपस्थाने कृते तथाऽनयाऽपि कर्तव्ये इत्येतदर्थम् । औसरवेदिका रति- देशतः प्राप्तस्य बाधनाथ गाई पत्यग्रहणम् । तत्र पयस्वत्यग्न आगमं तां मा ससृज बर्चसेति मन्त्र उहः । इत्योकोपाहश्रीपद प्रिष्टोमयाजिसाइनानियुक्तवाजपेयपाजिसर्वतोमुखपा. जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ. दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकशिसू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवमम- श्नस्य पञ्चमः पटलः ॥ ५॥ ग. च. हीयामित्य" ।