९४६ सत्याषाढविरचितं श्रौतसूत्र- [रनामो-
ऋजीषस्य स्रुचं पूरयित्वा समुद्रे ते हृदयमित्यप्सूपमारयति ।
अनीषस्येति षष्ठ्यवयवे । तेन पैकदेशेन मुक्पूरणम् । बुचं प्रचरणीम् । तस्या एव सोमसंबन्धित्वात् । अन्यां वा लौकिकीम् । लौकिकस्चुग्ग्रहणपक्षेऽवभृथपात्रप्रयोग एतस्या अपि प्रयोगः । प्रोक्षणं संमार्गश्च तूष्णी जुहूवत् । अनीपैकदेशेन पूरितां सुचमप्सूपमारपति अप्मु निमजयतीत्यर्थः ।
अप्सु धौतस्य सोमदेवत इति यो भिन्दूनामुच्चरति तमवघ्रेण भक्षयत्युपस्पृशति वा।
पो भिन्दूनामुच्चरति उच्चलति रव्योः सावात् , भिन्दूनां बिन्दूर्ना मध्ये यो महत्त्वाद्धेतोविन्दुरुत्प्लवते तमवघेणावधाणेन भक्षयति उपरपृशति वा तं बिन्दुमवप्राणप- यन्तं तस्य स्थातुमशक्यत्व उपस्पर्शः।
अवभृथनिचङ्कुणेत्यवभृथꣳ संप्रविध्यन्ति ।
बहुवचनादध्वर्युपतिप्रस्थात्रनेतारो यजमानश्च संपविध्यन्ति अवमृषमषभूषद्रव्य- समुदाय सम्याक्षिपन्ति उदक इत्यर्थः ।
देवीराप इत्युपतिष्ठन्ते ।
बहुवचनात्सर्वे याजुषाः।
सुमित्रा न इति मार्जयन्ते ॥ १४ ॥
पूर्ववत्सर्वे याजुषाः।
उन्नेतर्वसीयो न उन्नयाभ्युदु त्ये मधुमत्तमा गिरः स्तोमास ईरते सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुरित्युन्नेतारꣳ संप्रेष्यति ।
वक्षीय इत्युन्नेतृविशेषणम् । अभि उदकतोराभिमुखं नोऽस्मानुन्नयोत्तारयेति ।। मधुमत्तमा इत्यादिनोत्तार्यविशेषणानि तन्माहात्म्यार्थकानि ।
उदेत प्रजामुत वर्चो दधाना युष्मान्राय उत यज्ञा असृक्षत । गायत्रं छन्दोऽनुसꣳरभध्वमथा स्याम सुरभयो गृहेष्वित्युन्नेता होतृप्रथमान्यजमानप्रथमान्वोन्नयति ।
सर्वानस्विनः । यजमान पत्नी छ । सकृदेव मन्त्रः। उदेतेति बहुवचनलिङ्गात् ।
प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रतियौति ।
मन्तिमसीमास्थमुदकं प्रतिलोडयति । ज़.मः वजिने।