. १५०पटछः]] गोपीनाथभट्टकृतम्योरखाब्याख्यासमेतम् । उद्याने यत्परायणे । आवर्तने विवने । यो गोपायति तर हुन इति चेति । तत्राव- भृथनिचकृति मन्त्रस्य सूत्रकृताऽन्यत्र विनियुक्तत्वान्नाऽऽहुतौ विनियोगः । नमो रुद्रायेत्यस्य च मन्त्रस्याविनियुक्तत्वादन सामान्यपरिभाषया विनियोगः । जपे वा विनियोगः । स च होमोत्ताम् । यतस्मिन्नग्नौ अपयतीत्यत्राऽऽवृश्च्यते वा एतद्यन. मानोऽनिम्यामिति श्रुतिलिङ्गं मूलम् । यदि गार्हपत्ये श्रपणं तदा गार्हपत्य इयमा- हुतिर्यवाहवनीये श्रपणं तदाऽऽहवनीय इति ।
समुप्तेऽवभृथे।
समुप्त औदुम्बामासन्यां स्थापित । आसन्यत्रोपस्थितत्वादानासन्धेव ।
प्रस्तोतः सामानि गायेति संप्रेष्यति सह पत्न्या त्रिः सर्वे साम्नो निधनमुपयन्ति ।
निधन साम्नोऽन्या भक्तिः । त्रिःशब्दस्योपयन्तीत्यनेनान्वयः । तथा च त्रिरुप. यन्तीत्यन्तयो भवति । त्रिरुपयन्तीत्यस्य त्रिरारित्यर्थः । प्रेषे सामानीति बहुवचनं देशवयकर्तव्यसामगानाभिप्रायेण । तेन सकृदेव प्रेषः सिद्धो भवति ।
उरुꣳ हि राजा वरुणश्चकारेति चात्वालं गत्वा वदन्ति चात्वालाद्वा प्रयान्तो वदन्ति ।
पास्वालं गत्वा चावालसमोपे स्थित्वा वदन्तीति प्रथमपक्षार्थः । चास्वालं त्यक्स्या सदमे प्रयान्तो निर्गच्छन्तो वा वदन्तीति द्वितीयपक्षार्थः ।
अन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।
उमयपक्षेऽपि चात्वालोकरावन्तरेण निष्कामन्ति । उच्च उदङ्मुखाः।
सर्वा दिशोऽवभृथगमनमाम्नातम् ।
अत्र या दिशं मन्ति सैव प्राची तदनुरोधेन तत्तदृस्विस्थानानि कल्पयित. व्यानि । सर्वेषां मन्त्रः । पन्या अपि । सह पल्येति पूर्वसूत्रानुवृत्त्येवं लम्यते ।
नोदीचेन संचरितवा इत्येकेषाम् ।
उदोचेनोदग्दिागतेन । इई पथो विशेषणम् । उदीचेन पथा न संचरेदित्ये- केषामाचार्याणां मतमित्यर्थः ।
मध्यदेशे द्वितीयꣳ साम्नो निधनमुपयन्त्युदकान्ते तृतीयम् ।
स्पष्टोऽर्थः ।
शतं ते राजन्भिषजः सहस्रामित्यपो दृष्ट्वा जपन्ति ।
सर्वेषां महुवचनाजपः । एकवचनपाठेऽध्वयोरेव अपः । बहुवचनपाठे पल्या अपि । १. ने निव । २ ग. व. प्रस्य वि । ३ ग. च. 'दुतिरि'। 7 1