पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सत्याषाढविरचितं श्रौतसूत्र- [९नवमप्रश्ने- समीपे प्रतिहृत्य । प्रतिहरणं नाम पर्यावृत्य हरणं प्रतिहरणम् । गार्हपत्यस्योत्तरत भाज्यानि गृह्णाति ।

सर्वाणि चतुर्ग्रहीतानि द्विर्वोपभृति ।

उपभृत्यपि चनुगृहीतं द्विवेति लाघवाद्वक्तव्य एवं वचनं जुह्वादिषु प्रकृतितः पक्षे प्राप्तस्य पञ्चगृहीतस्य निवृत्त्यर्थम् । उपभृति ब्रह्मणस्त्वेत्यादिचतुर्भिः । नोपभृत५ समानयत इति वक्ष्यमाणनिषेधःहिरर्थमेव समानयनं न स्वाहाकारार्थमित्यवगम्यते । अतं औपभृदाज्यस्य प्रयान संबन्धाभावात्प्रथमस्य चतुर्गृहीतस्य प्रयानार्थस्य निवृत्तिः । द्विोपभृतीत्यस्मिन्पक्षे विशे त्वा सुवीर्याय त्वेति द्वाभ्यां द्विवारं ग्रहणम् । प्रकृतिवद्ध- पायाम् । अपोद्धृत्याऽऽज्यस्थाली खुववेदाभ्यां सह । अन्यत्र कार्यानुरोधेनापोद्धरण मर्थप्राप्तम् । स्वधा पितृभ्य ऊ• आसादितानां प्रोक्षणीनां प्रतिपत्तेरावश्यकत्वादिदम् । पवित्रापिप्सर्जनं तूष्णीमेव वेद्यामेव । प्रस्तराभावात् । प्रस्तरापिसर्जन एव मन्त्रः । यजमानो वै प्रस्तरः प्राणापानौ पवित्रे यनमान एव प्राणापानौ दधातीत्यर्थवादात् ।

अलंकृत्य पुरोडाशमुत्तरेऽꣳसेऽवभृथꣳ सꣳसादयति ।

अलंकृत्य पुरोडाशमित्यनेनेदमह५ सेनाया इत्यादिविधिः प्राप्यते । अत्रामिपूरणं न विद्यते । कृत्स्नस्य प्रधानकर्मण्यप्रदेयत्वात् । स्विष्टकृद्वचनाच । उत्तरवेदेरुत्तरेंs. सेऽवभृथे प्रक्षेपणीयं द्रव्य समुदाय संसादयति एकत्र करोति । समेवाऽऽह-

पुरोडाशमाज्यान्यौदुम्बरीमधिषवणफलके खरपाꣳसूनृजीषं च यत्किंच सोमलिप्तमन्यत्र चतसृभ्यः सोमस्थालीभ्य आग्रयणस्थाल्या उक्थ्यस्थाल्या आदित्यस्थाल्या ध्रुवस्थाल्याः ।

यत्किंच सोमलिप्तमित्यनेनाधिपवण चर्मादि गृह्यते । नास्मिन्पुरोडाशसादने यान- मानमपूर्वत्वात् । चतसृभ्यः सोमस्थालीभ्य इत्येतावतैव चतसृणां प्रसिद्धत्वाग्रहणे सिद्धे निर्देशो देविकाहविनिर्वापपक्षे चतस्रः स्थाल्योऽन्यत्र तस्मात्स्थलादपसार्य प्रज्ञाता अन्यत्र स्थाप्यास्ताश्च प्रथमत आग्रयणस्थाली स्थाप्या तत उक्थ्यस्थाली तत आदित्यस्थाली ततो ध्रुवस्थालीत्येवं क्रमेणैव स्थाप्या इत्येतादृशक्रमप्राप्त्यर्थम् ।

आयुर्दा अग्ने हविषो जुषाण इति जुहोति यतरस्मिन्नग्नौ श्रपयति ।

अत्रावभृथनिच कुणेति मन्त्रेण द्वितीयाऽऽहुतिः । नमो रुद्राय वास्तोष्पतय इति तृतीयाऽऽहुतिः । उक्तं चाऽऽपस्तम्बेन--आयुर्दा अग्ने हविषो जुषाण इत्यवभृथमवै. व्यजुहुयादवभूधनिघणेति च । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे ।