पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्र- [९नवमप्र-

9.5 अथ नवमप्रश्ने पञ्चमः पटलः ।

अवभृथस्य तन्त्रं प्रक्रमयति ।

अथावभूयस्तत्र यावन्क्रियते तव्याख्यास्याम इत्येतावतैव सिद्धेऽवभूषस्य सत्रं प्रक्रमयतीत्येवं गुरुसूत्रकरणमध्वर्युतन्त्रविषय एव तत्र यावक्रियते तब्याख्यास्याम इत्येतस्य प्रवृत्तिनै हौत्रतन्त्रविषय इति । तेन दे।। यो अप्मु महिम इत्यत्र भवत्येक । भूः प्रपद्य इत्यादि तु न भवति वेदेरभावात् । तु

तत्र यावत्क्रियते तद्व्याख्यास्यामः ।

गृहमेधीयायां प्रायणीयायां च गतार्थम् ।

अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।

अग्न्यन्वाधानव वनमतद्वचनाभावे तत्र यावक्रियते तन्याख्यास्याम इतिसूत्राद. प्राप्तिः स्यात्तस्य प्राप्त्यर्थम् । कृतव्याख्यान प्रायणीयायाम् । कालतस्तनम् । पौर्ण- मासतम्यस्वे ज्योतिरुत्तमं यज्ञायेति, इमामू ये प्रविष्टा इति च । आमावास्यतन्त्रत्वे ज्योतिरुत्तममद्य यज्ञाय०इमामूर्न यथातिथीति । उभयत्रापि आवभूष हविरिति विशेषः समान एव । न व्रतग्रहणं पूर्वगृहीतत्रतस्याद्याप्यमुक्तत्वात् । अलोपात् । नेमाबहिराहरणम् । तूष्णीमसिदमादाय निष्टप्य परिभोजनीयांछित्त्वाऽऽदय परि- भोजनावदभ्यो वेदार्थ दर्मान्गृहीत्वा तेन वेदं कृत्वा परिस्तृणीत नोभावनी कर्मणे वामिति पाणी पक्षाश्योलपराजी यज्ञस्य संततिरसीति मन्त्रेण स्तीत्वा यथार्फ पथाप्रयोजनं पात्राणि दर्भेषु प्रक्षालिनानि न्याग्निनानि प्रयुनक्ति । उलपरानोमित्येक. वयनप्रयोजनं प्रायणी यायां दर्शितमेत । अत्र क्त्वापत्ययादुलपरानीस्तरणानन्तरमेव पात्राणां प्रयोगः। अवभृथस्य सर्वशेषत्वान ब्रह्मयजमानसदनकरणम् । सुथार्थ कृताभ्यामेव सदनाम्यां सिद्धेः । सपथ कपालमेक महासामर्यातू | अग्निहोत्री कृष्णाजिनं शम्यामुलूखलं मुसलं दृषदमुपलां सु जुहमुपभूतं धुवामाज्यस्थाली कुटर पात्रों मेक्षणं वेदं मदन्तीपात्रमुपवेषं निषेचनपानं वेदाप्राणि वस्त्रयुग्ममुडम्बरशा- खां चेत्येतावन्ति पात्राणि । न ब्रह्मवरण प्रधानार्यवरणेनैव सिद्धः । यजमानोपये शनम् । ततो वाचस्पत इत्याद्येव ब्रह्मणः पवित्रकरणम् ।

न प्रणीताः प्रणयति ।

ब्रह्मन्नपः प्रणेण्यामीति नास्ति न प्रणीताः प्रणयतीति प्रणयनस्य निषेधात् । पन- मान वाचं यच्छेत्सेतावानेवात्र प्रैषः ।