पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३६ सत्यापाढविरचितं श्रौतसूत्रं- [ नवमप्रभे--

देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमस्यात्मकृतस्यैनसोऽवयजनमसि परकृतस्यैनसोऽवयजनमस्येनस एनसोऽवयजनमसि यच्चाहमेनो विद्वाꣳश्चकार यच्चाविद्वाꣳस्तस्यैनसोऽवयजनमसीति प्रतिमन्त्रमाहवनीये शकलानभ्यादधति ।


प्रतिमन्त्रमितिवचनमेंकेतिकरणादेक एव मन्त्रस्तदन्ते शकलानामभ्याधानमिति स्यात्तन्मा भूदित्येतदर्थम् ।

उभा कवी युवाना सत्यादा धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इति सख्यानि विसृजन्ते ।

सत्यविप्सर्गोऽत्राद्रोहविसर्गः । तत ऊर्ध्वरद्रोहो द्रोहो वा न तु नियमेन दोह एव कर्तव्य इति विधिः।

अभिमृष्टे वेदे पत्नीः संयाजयन्ति ।

यजमानेनाभिमृष्टे वेदे सति पत्नी: संयाजयन्ति । परिधिषु संस्त्रावहोमानन्तरं हविः- शेषप्राशनं ततो वेदाभिमस्तितः पत्नोसयाना इत्येतावानेवात्र क्रम इति प्रकृतितोऽत्र विशेषः।

स्तीर्णे वेदे नवगृहीतमाज्यमध्वर्युर्गृहीत्वा धातारातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठञ्जुह्वाहऽऽवनीये नव समिष्टयजूꣳषि जुहोति ।

स्तीर्णे वेद इत्यनेन समिष्टयन)मात्पूर्व सर्वप्रायश्चित्तहोमोत्तरमत्र वेदस्तरणकाल इति प्रकृतितोऽत्र विशेषः । अध्वर्यग्रहणं नियमार्थमध्ययुरेव जुहोति न यजमानोऽपि अन्वारम्भद्वारा | सूत्रान्तरेऽत्रान्वराम्म उ को यनमानस्य तव्यावृत्यर्थमिदं वचनम् । अन्तर्वेदिवचनं दविहोमधर्मव्यावृत्त्यर्थम् । ऊर्धवस्य प्रकृतितः प्राप्तत्वेऽपीदं वचनम. न्यदाहोमात्मकेषु होमेषु पक्षे प्रताऽपि भवतीतिज्ञापनार्थम् । जुहुग्रहणं प्रकृति- प्राप्तध्रुवाव्यावृत्तये । आहवनीयग्रहणप्रयोजनं यद्यप्यत्र नास्ति तथाऽप्याहवनीये नवा- नामपि समिष्टयजुषामयं होम इति प्रयोगकाले स्मरणार्थमित्यदृष्टमेव प्रयोजनं करप्यम् । एतत्स्मरणाभावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति . दक्षिणाग्नौ होतव्यम् । नव समिष्ट- यपि जुहोति नवभिभत्रनैव समिष्टयशष जुहोतीत्यर्थः । तत्राऽऽयाः षण्मन्त्रा अचः । अवशिष्ट। यषि । षड्झाम्मियाणि जुहोति त्रीणि यक्षीति श्रुतिरपि । 'अग्मियाणि ऋपाणि । अङ्मयाणीत्यपेक्षित अश्मियाणीति च्छान्दसः पाठः । एतास्वृक्षु स्वाहाकारपरिभाषासिद्धः । यजुःषु तु पठित एवं स्वाहाकारोऽस्ति । .