९३४ सस्याषाढविरचितं श्रौतसूत्र- [९नवमप्र-
नानूयाजान्ते स्वरुं जुहोति न हृदयशूलेन चरन्ति यद्यनूबन्ध्या भवति ।
इदं वाहनबन्ध्योपलक्षणम् ।
प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य हारियोजनेन चरन्ति ।
संसावणाभिस्येतिवचनं परिधिप्रहरणाझं संसापहोम इतिबोधनार्यम् । सोमात. स्वात्पुनर्वचनम् । हरिरस्मिन्युज्यते स्वस्थानं प्रति गमनायेन्द्रस्येति हरियोजन इन्द्रस्तरसंबन्धिग्रहो हारियोजनस्तं संस्त्रावामिहोमान्ते परिधिप्रहरणारूयकर्मणि कृते गृहातीत्यर्थः।
उपयामगृहीतोऽसि हरिरसि हारियोजन इत्युन्नेता द्रोणकलशेन हारियोजनꣳ सर्वमाग्रयणं गृह्णाति ।
अत्र तृतीया सम्पर्थे । आग्रयणस्थालीस्थसोमस्य स्थाच्या अल्पपात्रत्वेन द्रोणक. शस्य महत्पा(हापात्रत्वेन तस्माद्ग्रहीनुमशक्यत्वात् । सर्वमाप्रयणमाप्रयणस्थालीस्थ सर्व सोमं द्रोण कलशे हारियोजनं अहं गृह्णाति ।
तं बह्वीभिर्धानाभिः श्रीत्वा न सादयति ।
धाना अत्र लौकिक्य एव । भनिता यवा धानाः । बौधायनेनाप्युक्तं प्रैष एक- धाना हारियोजनीः कुरुतेति ।
शीर्षन्नधि निधायोपनिष्क्रम्येन्द्राय हरिवतेऽनुब्रूहीन्द्राय हरिवते प्रेष्येति संप्रेष्यति धानासोमेभ्योऽनुब्रूहि धानासोमान्प्रस्थितान्प्रेष्येति वा।
..शीर्षन् , शीणि । विभाषा शिश्योरिति लोप: सप्तम्या: । शीर्पन्नधि शीर्ण उपरीत्यर्थः । उपनिष्क्रम्येत्यनेन हविर्धानाद्वहिरीत्वैवायं प्रैषः ।
हरीः स्थ हर्योर्धाना इति विक्रम्य वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।
विक्रम्येति विविधं कमणं विक्रगणमग्रतः पृष्ठतश्च पादयोः करणं पुनः पुनः । भत्र हेतुः श्रुतौ विक्रम्प होन्द्रो वृत्रमहन्समृध्या इति । वषट्कारोत्तरं तूष्णीमेष विक्रमणम् । मन्त्रेण होमः । इन्द्राय स्वाहेति स्वाहाकारलिङ्गात् । हरति मक्ष सदः प्रति हरति मक्षम् ।
तꣳ सर्वे समशः प्रतिविभज्योन्नेतर्युपहवमिष्ट्वेष्टयजुषस्ते देवसोमेति चिश्चिषाकारं धाना भक्षयन्ति ।
वाचनिकोऽत्र भक्षलाभो होचुन्नेतृव्यतिरिक्तांनामपि निमित्ताभावेऽपि । होतुर्वषट्- कारप्रयुक्तो पक्षः । उन्नेतु)माभिषवप्रयुक्तो भक्षः । इतरेषां वाचनिकः । तं हारियो- 'ग, चरति