प [४५० पटलः] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । स्यानुवृत्तिः । ऊर्ध्वमित्यनन्तरं चकारोऽध्याहर्तव्यः । आहावादूर्ध्वमपि उभयतोमोद एवं प्रतिगरः । व्याहावासिद्धः प्रतिगरः । व्याहावादारभ्य सिद्धः प्रसिद्ध एव प्रति- गरो भवतीत्यर्थः ।
भूतमसि भूते मा धा इति प्रतिप्रस्थाता ध्रुवमभिमन्त्रयते ।
.. नेष्टुन्नेतृव्यावृत्त्यर्थ प्रतिप्रस्थातृग्रहणम् । एतयोरप्यध्वर्युत्वाविशेषात् । अध्वयों- र्यावृत्तिस्तु तस्य व्यापृतत्वादेव भविष्यति । भूयासमित्यन्तो मन्त्रस्य ।
द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्णाति ।
अञ्जलिना ध्रुवं परिगृह्णाति । अञ्जलिना परिगृह्याऽऽस्त इत्यत्र दर्शनात्स्पष्टतयाs- नलिना परिगृह्णातीत्यापस्तम्बेनोक्तत्वाच्च ।
विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्विति ध्रुवꣳ स्थानात्प्रच्यावयति ।
प्रच्यावयति स्वस्थानाच्चालयति । प्रशब्दो झटिति चालनार्थः । प्रच्यावयन्त्विस्यन्तो मन्त्रस्य।
दिवि देवान्दृꣳहान्तरिक्षे वयाꣳसीति हरति ।
होतृचमतसमीपं हरतीत्यर्थः । पार्थिवानित्यन्तो मन्त्रस्य ।
ध्रुवं ध्रुवेण हविषाऽव सोमं नयामसीति होतचमसे ध्रुवमवनयति परिधानीयायाꣳ शस्यमानाया सकृच्छस्तायामादितो वा शस्त्रस्य ॥ १०॥ मध्यदेशेऽन्ततो वा।
• शस्यमानायामित्यत्राऽऽदित आरभ्याऽऽन्तम् । सकृच्छस्तायामित्यनेन मध्यमे पर्याये । शस्त्रादौ शस्त्रमध्ये शस्त्रान्ते वेति पञ्च पक्षाः सिद्धा भवन्ति ।
शस्त्रं प्रतिगीर्य होतृचमसमध्वर्युरादत्ते चमसाꣳश्चमसाध्वर्यव उक्थशा यज सोमानामिति संप्रेष्यति ।
शस्त्र प्रतिगीति दर्शितप्रयोजनम् । अवशिष्टं सूत्रमपि दर्शितप्रयोजनम् ।
व्याख्यातश्चमसानां भक्षः।
- यथाचमसं चमसिनो - भक्षयन्तीत्यारभ्य तृतीय५ होत्रका इत्यन्तेन सूत्रेण
व्याख्यात इत्यर्थः ।
सर्वभक्षा नाऽऽप्यायनसादने भवतः ।
अनाराशंसत्वादिति मावः ।
अग्नीदौपयजानङ्गारानाहरेत्येतत्प्रभृति पाशुकं कर्म प्रतिपद्यते ।
स्पष्टम् । १ ग. इ.च.ज.म. द. नाच्च्याव । ११८