पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! ९२४ ‘सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रश्ने- कार्यमेव । यदि पुरोडाशशकलनाशो देवात्तदा लोपः । पिण्डदानलोपनिमित्तकं सर्व. प्रायश्चित्तं होतव्यम् । यदा तु पितृपितामही जोवतस्तदा प्रपितामहवृद्धपपितामहा- तिवृद्धप्रपितामहानुद्दिश्य कर्तव्यम् । यदि त्रयाणामपि जीवनं तदा लोप एक । नात्र सर्वप्रायश्चित्तमपराधाभावात् ।

तस्मिन्कृते वाममद्य सवितरित्येतेषामेकेनान्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति ।।

शकलोपासनप्रभृतिप्रत्यायनमजपान्तसमुदायरूपे कणि कृते सतीत्यर्थः । तस्मि. स्कृत इत्यनेनाध्ययोन कर्मेति सूचितमचमसित्वादिति मावः । इदं सर्वेषामचमसिना- मुपलक्षणम् । इत्येतेषामेकेनेतिवचनान्मत्रत्रयमत्र श्रुतौ पठितमस्ति सत्र येन केनाच. न्मत्रेण ग्रहणं कर्तव्यमित्यवगतं भवति । सावित्रं सवितृदेवताकं ग्रहमायणात्परि- पुपया।

न सादयत्युपनिष्क्रम्प देवाय सवित्रेऽनुब्रूहि देवाय सवित्रे प्रेष्येति संप्रेष्यति।

भत्रोपनिष्क्रम्यति वचनादन्यप्रेषेषु विशेषत्रचनामावे हषिर्धाने स्पित्वाऽपि प्रेषा भवन्तीति गम्यते । अत्रोपनिष्क्रमणोत्तरमेवेति नियमः । एवमन्यत्रापि । अन्यत्स्पष्टम् ।

हुत्वा नानुवषट्करोति न भक्षयति सूदवत्पात्रꣳ सादयति।

द्विदेवग्रिहेष्वादित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यत इत्येतत्सूत्रादेव निषेधे सिद्ध प्रयोगे मटित्यवगमार्थम् । होमाभिषवनिमितमक्षस्य प्राप्तत्वानिषेधः । सूदक- पात्र सादयतीतिवचनं सर्वहोमव्यावृत्त्यर्थम् ।

उपयामगृहीतोऽसि सुशर्माऽसि सुप्रतिष्ठान इत्येतेनैव पात्रेणाभक्षितेन वैश्वदेवं कलशाच्छस्त्रवन्तं गृह्णाति ।

न भक्षयतीति निषेधेनैव सिद्धेऽत्राभक्षितेनेतिवत्रनं ग्रहग्रहणकालेऽयं सावित्र- ग्रहो न भलितस्तस्मिन्नेव वैश्वदेवो गृह्यत इतिज्ञानावश्यकत्वार्थम् । एतदभावे यजुर्भेष- प्रायश्चितं भुवः स्वाहेति दक्षिणामौ होतव्यम् । शस्त्रवन्तमित्येतस्य प्रयोजनं प्रातःस- वन ऐन्द्रामग्रहे प्रदर्शितमेव ।

एकया च दशभिश्च स्वभूत इत्येतस्याꣳ शस्यमानायां प्रातर्युजौ विमुच्येथामिति प्रतिप्रस्थाता द्विदेवत्यपात्राणि विमुच्यापरया द्वारा निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वया द्वारा प्रपाद्याऽऽयतनेषु सादयति ।

एतस्यामृचि शस्यमानायां प्रातर्युगो विमुच्येयामिति मन्त्रेणोत्तरवर्तनोतो द्विदेव- स्वपात्राणि विमुच्य हविर्धानमण्डपस्यापरया द्वारोपनित्य मान लीये प्रक्षास्य हवि.