पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२३ . ० O O । [श्तृ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सूत्रे च विनियोगात् । अहोमार्थत्वादग्रहोऽत्र । पितृयज्ञे षड्ढोतारमिति श्रुतिरपि । चमससमीप एव षड्ढोतृव्याख्यानम् । एतत्ते ततामुकशर्मन्ये च त्वामनुः । एतत्ते पितामहामुकशर्मन्ये च त्वामनु । एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु । आपो देवीः । अत्र पितरो यथा ० स्वाहोष्म० अमीमदन्त पि ० आक्ष ततामुकशर्मन् । आक्ष पितामहामुकशर्मन् । आव प्रपितामहामुकशर्मन् । अध्यक्ष्य ततामुक- शर्मन् । अध्यक्ष पितामहामुकशर्मन् । अध्यक्ष्य प्रपितामहामुकशर्मन् । एतानि वः पितरो० नमो वः पितरो रसाय पितरो नमो वो० नमो वः पितरः शुष्माय पित. नमो वः पितरो जीवाय पि० नमो वः पितरः स्वधायै पित. नमो वः पितरो मन्यवे पित० नमो वः पितरोऽघोराय पित. ऊर्जस्वतीः स्व० उत्तिष्ठत पितरःप्रे० परेत पितरः सो० यन्तु पित० मनो न्वाहु० आ न एतु० पुनर्नः पित० अक्षन्न प्रजा- पते न० दानप्रभृतिपत्यायनान्ता एते पिण्डपितृयज्ञमत्रा एताञ्जान्त्येव न कर्मापि । वासोदानोदपात्रनिनयनोस्तु सकृदेव मन्त्रः । यजमानस्य स्वपितॄणामुपलक्षणं सिद्ध- मेव । इतरेषां चमतिनां तु स्वस्वपितृणामेव । स्वेभ्यः पितृभ्य उपास्येयुरित्याश्वलाय. नोक्तेः। कात्यायनमते तु यजमानपित्रणामुपलक्षणं सर्वेषाम् । तथा च तत्सूत्रम् - यजमानस्य पितृभ्यो वा तस्याविकारादिति । यजमानस्य फलार्थित्वात्फलार्थेषु कर्मसु तस्यैवाधिकारः । वाशब्दः स्वपितॄणामुपलक्षणं कार्यमितिपूर्वपक्षव्यावकि इति कात्या. पनसूत्रार्थः । अस्मिन्पक्षे यजमानस्य ततामुरुशर्मन्, यजमानस्य पितामहामुकशर्मन् , पजमानस्य प्रपितामहामुकशर्मन् , यजमानस्य ततावामुकशर्मन्यजमानस्य पितामहा। वामुकशर्मन्यजमानस्य प्रपितामहावामुकशर्मन्यनमानस्य तताम्यवामुकशम:' न्यजमानस्य पितामहाम्यवामुकशर्मन्यजमानस्य प्रपितामहाभ्यसामुकशर्मन् , इत्येवं मन्त्राणां प्रयोगः । असावितिवचनामावेऽपि पिण्डपितृयज्ञमन्त्रेषु अतावित्येतस्य शब्दस्य सत्तात्तत्स्थानिको नामनिर्देशोऽत्रापि भवति । पिण्डपितृयज्ञगन्त्राञ्जपन्ती- तिवचनात् । अत्र यजमानः सर्वे वा पुरोडाशशकलोपासनादिकर्मकर्तारो जीवपितृकाः स्युस्तदाऽपि शकलोपासनादिकर्म पितामहप्रपितामहवृद्धप्रपितामहोद्देशेनैव कर्तव्यम् । वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तभ्यो दद्यात्स्वयं सुतः ॥ इति वचनात् । उद्वाहे पुत्रजनने पिव्येष्टयां सौमिके मखे । तीर्थ ब्राह्मण आयाते षडेते जीवतः पितुः ॥ इतिमैत्रायणीयपरिशिष्टवचनाच्च । सौमिके मख इत्यनेन सोममखान्तर्गतं पित्रुद्देश्यकं कर्मोच्यते तत्रेत्यर्थः । एवं प जीवपितृकैरपि स्वस्य यजमानस्य वाऽपि पितामहप्रपितामहवृद्धप्रपितामहोद्देशेनेदं' )