पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ सत्यापाढविरचितं श्रौतसूत्र-. [९नवमप्रश्न- तमतः सप्त मन्त्राः सप्तसु संबद्धा मवन्तीत्ययमर्थ एव सूचितो. भवति । तथा च मिनि:- समं स्यादश्रुतत्वादिति । विशेषस्याश्रवणात्साम्यमेव भवतीत्यर्थः । आश्वलायनेनापीय परिभाषोक्ता-बहुषु बहूनामनुदेश आनन्तर्ययोग इति । पाणिनिरपि स्वशान उपयो- गित्वात्परिभाषां कृतवान् यथासंख्यमनुदेशः समानामिति । तथा चैवमेवात्र व्याख्यान समीचीनं नान्यदिति । वट्स्वयमभिगूर्ताय नम . इत्यनुवषट्कारान् । अनुवषट्कारप्रयु- कान्होमान् ।

तृम्पन्ताꣳ होत्रा मधोर्घृतस्येति हुताननुमन्त्रयते ।

हुतान्प्रत्येकमनुलक्षीकृत्य मन्त्रयत इत्यर्थः ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

व्याख्यानमेतमाध्यदिने सक्ने । अस्मिन्सबने होत चमसेऽध्वयोंहोमाभिषव प्रयुक्तस्य पक्षस्य सत्वेन प्रतिभक्षितः सत्त्व द्योतः समाख्याभक्षः पृथगेव भवति न तु तन्त्रेणं सिद्धिः । तीब्रस्याऽऽशीर्वतोऽभ्युनीयोपावर्तध्वमित्यनेन सकृत्पूनभृत एवोन्नयनं कर्त- व्यमिति बोध्यते ।

सन्नेषु नाराशꣳसेषु स्वꣳ स्वं चमसं ...न्यन्ते त्रीꣳस्त्रीन्पुरोडाशशकलान्दक्षिणत उपास्यन्ति ।

एवं स्वं चमतमित्यनन्तरमनुरध्याहार्यः । अपभ्रष्टो वा सूत्र । तथा च द्वितीया युक्तैव । आपस्तम्बेनैवमेव पठितम्-स्व स्वं चमसमनु न्यन्त इति । श्री स्त्रीनिति वोप्सा सर्वचमतिव्यापिकर्तृत्वार्था । हविःशेषपुरोडाशसंबन्धिशकलान्स्वस्वचमासाइक्षि- णतः पितृतीर्थेनोपास्यन्ति निक्षिपन्ति । निक्षेपणं तूष्णीमेव । दानप्रभृतिमन्त्राणां जप- स्यैव विधात्यमानत्वात् । निक्षेपणे. यज्ञोपवीत्येव । अग्रे प्राचीनावीतविधानात् । अन्यथा प्राचीनावीतं विधायोपासनविधानं कृतं भवेन्न कृतं च तथा । तस्मात्पुरोडाश- शकलोपासने यज्ञोपवीत्येव । प्राचीनावीतानि कृत्वोपास्यन्तीत्येवमन्वयः कदाचित स्यात्तथा चौपासनेऽपि प्राचीनावीतं स्यादितिशङ्कानिरसनार्य तत्कृत्येत्युपासनानुवादः । तनुपासनं कृत्वा । तदित्यस्य तानीत्यर्थः । तानि उपासनानि । मुपां मुलगित्यनेन बहुवचनविभक्तेलृक् । कर्तृबहुत्वाभिप्रायं बहुवचनम् ।

तत्कृत्वा प्राचीनावीतानि कृत्वा षड्ढोतारं व्याख्याय दानप्रभृतीन्प्रत्यायनान्तान्पिण्डपितृयज्ञमन्त्राञ्जपन्ति।

पुरोडाशशकलोपासनकर्तारः स प्राचीनावीतानि कृत्वा सूर्य ते चक्षुरिति षड्दोतारं व्याख्याय वाक्यशः पठित्वा न वाग्वोतेति । एतस्य प्रायश्चित्त एव श्रुतो १.ब.न्तत ।