पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

O T 1 [३तृ ०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् ।

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जत्युन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वं ... तीव्राꣳ आशीर्वतः कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपित्वमुन्नयस्वोन्नेतः सोमं प्रभावयेति संप्रेष्यति।

भैषमध्ये विशेषस्य सत्त्वात्कृत्स्नः पाठः । तीवशब्देनातिकट्यम्लवन्तः सोमा उच्यन्ते । आशीर्वत इत्यनेनाऽऽशिरवन्त उच्यन्ते ।

होतृचमसमुख्यानेकादश चमसानुन्नयति ।

गतम् ।

प्रचरणकाले प्रस्थितैरेव प्रचरति ।

प्रचरणकाले प्रस्थितैरुत्तरवेदिं प्रति प्रस्थान प्राप्तैः । एतादृशैश्चमसैः सद्भिरेव प्रच- रति न तु पूर्वमित्यर्थः।

तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राꣳ आशीर्वत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यत:कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा तीव्रस्याऽऽशीर्वतोऽभ्युन्नीयोपावर्तध्वमिति संप्रेष्यति ।

प्रेषमध्ये विशेषस्य सत्वात्कृत्स्नः पाठः श्रेषस्य । अत्र होत्रकचमसानां सकृत्सक- द्धोमे चमसाध्वर्यवो दक्षिणामुखा एव न प्राङ्मुखाः । प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्धिनाविति शुक्रामन्थिसंयोगवचनात् । उन्नीयमानसूक्ते परिहिते चमसाध्वर्युभिरितरेष्वात्तेषु पमसेषु अध्वर्यो)तृचमसमादायैव प्रेषो ग्रहयोरमावात् ।

श्येनाय पत्वने स्वाहेति ॥ ७॥ एतैः पुनरभ्युन्नीताञ्जुहोति वट्स्वयमभिगूर्ताय नम इत्यनुवषट्कारान् ।

एतैः पुनरित्यत्र पुनःशब्दोऽप्यर्थकः स चाभ्युन्नीतशब्दानन्तरमन्वेतव्यः । तथा चैतर्मन्त्रैरभ्युन्नीतानपि जुहोतीत्यर्षो भवति । एतस्मादर्थकरणाद्धोतृचमतस्यापि संग्रहो भवति । तेन प्रथमो मन्त्रः श्येनाय पत्वने स्वाहेति । अनेन होतृचमतस्य होमः । अन्ये षण्मन्त्राः प्रशास्त्रादीनां चमसेषु क्रमेण ज्ञेयाः । साम्यादयमर्थो लभ्यते । तञ्च साम्यं कथमित्याकाङ्क्षायां सप्तः मन्त्राः सप्त कर्तारश्च । तथा च सप्त मन्त्राः सप्तसु चमसेषु संबद्धा भवन्ति । मन्त्रसमुदायविनियोगे षड्भिरित्येवं विनियोगो न कृतः । अवशिष्टो विकल्पार्थ इत्यपि नोक्तम् । एवं चाऽऽचार्येणैतादृशस्वशैलीपरित्यागेन यत एवमेव मूत्रि. .ग. घ. सैः षड्भिरे । २. ग. य. माने सू।