पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A सत्याषाढविरचितं श्रौतसूत्रं- [९नवमप्रने विहरणादन्याभैषजातं तसंप्रेष्यतीत्यर्थे सिद्धे माध्यंदिनसवनातिदेशात्प्रतिप्रस्थात- दधिधर्मेण चरेति प्रैवान्तः प्राप्नुयात्तद्यावृत्त्यर्थमिदं वचनम् ।

अविहृतेष्वव्याघारितेषु धिष्णियेषु स्तीर्णे बर्हिषि प्रतिप्रस्थाता सवनीयान्निर्वपति ।

आमीण स्तीण बहिषि सति प्रतिप्रस्थाता सवनीयान्निर्वपति । अयमप्येकः सव- नीय निर्वापकालः।

द्वादशकपालोऽत्र पुरोडाशः ।

अत्र तृतीयसवने माध्यदिनेन सवनेन कल्पो व्याख्यात इत्यतिदेशान्नाऽऽमिक्षा विधतं इत्यामिक्षानिषेधोऽप्यत्र सिद्धो भवति ।

न पशुपुरोडाशो विद्यते ।

माध्यंदिनसवनातिदेशात्पशुपुरोडाशस्यापि प्राप्तत्वान्निषेधः क्रियते ।

अष्टाकपालान्सर्वत्र सवनीयानेके समामनन्त्येकादशकपालानेके द्वादशकपालानेके ।

अन मध्यमः पक्ष एकादशकपालानेव प्रातःसवने कुर्यादेकादशकपालामाध्यदिने सवने, एकादशकपालास्तृतीयसबने यज्ञस्य सलोमत्वायेति स्वशाखागत एव । इतरौ पक्षौ शाखान्तरीयौ।

अलंकृतेषु प्रतिप्रस्थाता संवादप्रभृतिना पशुतन्त्रेण प्रतिपद्यते ।

पूर्वत्र निर्वाऽपि अत्रैवालंकरणं प्रेषानुरोधात् । जुह्वां पञ्चगृहीतं गृहीत्वा पृषदाज्य- सुर्व पाऽऽझायेत्यादि हृदयश्ल प्रज्ञातं निदधातीत्यन्तं यत्पशतन्त्रं तेन प्रतिपद्यते सस्करोतीत्यर्थः । पञ्चहोत्रासादनादिरः प्रचारोऽध्वयोः सामर्थ्यात् ।

तस्य दक्षिणेन हविर्धानमुत्तरेण वा समवत्तं परिहरति ।

तस्य पशोः, वक्षिणेन हविर्धानमुत्तरेण वा समवत्तं झुग्गतमिडागतं च परिहरति. परितों हरन्ति ।

न यजमानो भक्षान्भक्षयति भक्षणमेके समामनन्ति ।

मक्षानिति बहुवचनादिडाहविःशेषयजमानमागानां निषेधः । भक्षणपक्ष एतेषां सर्वेषामपि भक्षणमस्ति ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति तृतीयस्य सवनस्येति संप्रेष्यति ।

प्रतिप्रस्थात्रा हृतान्पुरोडशानासाय तैः पुरोडाशैः समवदार्थ सहावदाय प्रचरति । १०. चम