पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १११० सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्र-

वसतीवरीषु परिगृह्यमाणासु वाचं यच्छत्या सुब्रह्मण्यायाः।

सुब्रह्मण्या ह्वानपर्यन्तमित्यर्थः । अत्राप्याडमिविधौ ।

महारात्रे बुध्यमानेषु बुध्यते ।

प्रथममिति शेषः । बोधनस्यार्थादेव सिद्धेः प्राथम्यविधानेनैव सार्थक्यम् । प्रथम- मित्यध्याहारं विना वैयर्थमेव सूत्रस्य स्यात् ।

उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः ।

अत्राप्याभिविधी तेन परिधानी यापर्यन्तमित्यों भवति ।

सवनीयासु प्रपाद्यमानासु पूर्वेण द्वारेण हविर्धाने प्रविश्याग्रेण खरं परीत्य दक्षिणत उपविशति ॥ २४ ॥ आग्रहकालादन्वास्ते ।

ग्रहकालो दधिग्रहेण प्रवरतीत्यत आरम्य ।

ग्रहेषु गृह्यमाणेषु वाचं यच्छत्याऽऽग्रयणस्य ग्रहणात् ।

आ, आग्रयणस्य ग्रहणादिति पदच्छेदः । आग्रयणग्रहणपर्यन्तम् । आक. भिविधौ।

बहिष्पवमानꣳ सर्पत्सु समन्वारभ्य सर्पति ।

वैमुषहोमसप्तहोतृहोमो ब्रह्माणं यजमानो यनमान ब्रह्मेत्येकेषामित्ययं विकल्प- श्वाऽऽवयवसूत्रोक्तोऽत्रापि द्रष्टव्यः । एतादृशेन विधिना समन्वारभ्य सर्पति ब्रह्माऽपि ।

ब्रह्मन्स्तोष्यामीत्युच्यमाने देवसवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्माऽऽयुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसव ओꣳ स्तुतेति प्रसौति ।

संहितामन्त्रस्य कृत्स्नः पाठः स्तोमभागमन्त्रेण संघानार्थः । तेन सह, ओर स्तुतेति अभ्यनुज्ञावाक्येन संधानम् । प्रसवोऽभ्यनुज्ञावाक्यम् ।

सर्वस्तोत्राणामेष कल्पः।

स्पष्टम् ।

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिꣳशतः स्तोमभागाः स्तोत्रे स्तोत्र उत्तरमुत्तरमादधाति ।

एकत्रिंशदेव स्तोमभागा मवन्ति । तेनाप्तोर्यामेऽन्यस्याऽऽवृत्तिः । एवं च संख्या- नियमः । एवं च सत्यपि सोमातिरेकनिमिते स्तोत्राधिक्ये तस्य तस्य तोस्तत एवं च. न.म; प्रपद्य।