पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ११०९

सदोहविर्धानेषु संमीयमानेष्वन्तरेण चात्वालोत्करावन्वेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ॥ २३ ॥ आवैसर्जनकालादन्वास्ते ।

अक्सिमपिन्नताहानादवाऽऽस्ते ।

होष्यमाणेषु वैसर्जनेषु यथेतं प्रत्येत्योत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य पूर्वेण द्वारेण प्राग्वंशं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशति ।

स्पष्टम् ।

एवावन्दस्वेत्युपस्थे राजानं कुरुते ।

उपस्थोऽङ्कः।

आवैसर्जनहोमादन्वास्ते ।

स्पष्टम् ।

हुते वैसर्जनेऽन्वगग्नेर्गच्छति ।

पूर्वो निष्क्रम्येत्यापस्तम्बः । हुते गार्हपत्यहोमे सर्वेभ्यः पूर्वो निष्क्रम्य प्राग्वंशा- स्परमध्वानमग्नेगच्छति सोमप्रथमकल्पे ।

पूर्वो वा।

यदा ह्यग्निप्रथमास्तदाऽन्वाज्यमेवाग्निं निष्क्रम्य गच्छति । अन्यथाऽग्निप्रथमाः सोमप्रथमा वा प्राञ्चो गच्छन्तीत्यनेनं विरोधात् ।।

आग्नीध्रीयं प्राप्य दक्षिणत उपविशत्यावैसर्जनहोमादन्वास्ते हुते वैसर्जनेऽन्यस्मै राजानं प्रदायोत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्य राजानं प्रत्यादाय सोमो जिगाति गातुविदिति .. सौम्यर्चाऽपरेण द्वारेण हविर्धाने प्रविश्याध्वर्यवे राजानं प्रदाय यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति ।

अन्यस्मै प्रतिप्रस्थाने । स्पष्टमेवापठदापस्तम्बः-आनीधीयं प्राप्य प्रतिप्रस्थाने राजानं प्रदायेति । अन्यत्स्पष्टम् ।

अग्नीषोमीयस्याऽऽ वपाया होमादन्वास्ते ।

अत्राऽऽभिविधौ तेन वपाहोमपर्यन्तमित्यर्थः ।

हुतायां वपायां मार्जयते ।

चात्वाले सर्वैः सह । सब्रह्मकाश्चात्त्वाले मार्जयन्त इत्याश्वलायनः । . १४०