पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

राजन्योह्यमानेऽग्नौ प्रणीयमाने हविर्धानयोः प्रोह्यमाणयोः।

राजनि अनसोह्यमानेऽग्नावौत्तरवेदिके प्रणीयमाने । अन्यत्स्पष्टम् ।

उखायाꣳ संभरिष्यमाणायाम् ।

उखायार संभरिष्यमाणायामिति मविष्यप्रत्ययादुखार्थ मृदं प्रति गमनं गृह्यते । स्पष्टमिदमुक्तमापस्तम्बेन-उखामच्छ गच्छतामिति । अच्छ मृत्खनाभिमुख्येन गच्छ- सामित्यर्थः ।

ओह्यमानायां च।

यजमानेन कण्ठे प्रतियुक्ता सती विष्णुक्रममन्त्रैस्तस्यामुखायामोह्यमानायाम् ।

नैर्ऋतीरुपधास्यताम् ।

नैरृतीरिष्टका उपधास्यताम् । अध्वर्युप्रतिप्रस्थातृब्रह्मयजमानाभिप्रायं बहुवचनम् । यद्यप्युपधाने साक्षात्प्रतिप्रस्थातृब्रह्मयजमानानां संबन्धो नास्ति तथाऽपि अग्निचयनसं- बन्धमात्रमाश्रित्यैवात्र बहुवचनम् |

चित्यग्नीनां प्रणीयमानानाम् ।

चित्यर्था इष्टकाश्चित्यग्नयः । चित्यग्नीनामित्यत्राग्निशब्दश्चितिसाधनपरः । चित्य. ग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीत्यादिना यद्विहितं चित्यग्नानां प्रणयनं तत्रापि दक्षि- णत आस्ते ।

वसतीवरी: सवनीयाश्च गच्छताम् ।

सवनीयाशब्देनैकधना गृह्यन्ते । सबने सवने तत्प्रयोजनसत्त्वात् । गच्छतां गच्छता प्रतिगच्छताम् ।

आह्रियमाणासु च ।

वसतीवरीः सवनीयाश्च यथाकालमाह्रियमाणासु । तत्र वसतीवरीणामाहरणकालोऽ. मोषोमीयवपाहोमोत्तरम् । सवनीयाहरणकालः प्रातरनुवाकोत्तरम् ।

अवभृथं चाभ्यवैष्यताम् ।

अवभृथं प्रति उरु५ हि राजेत्यनेनाभ्यवैष्यतामवभृथदेशाभिमुखं प्रत्यवैष्यतां गमन- क्रियायां करिष्यमाणायाम् ।

उद्यत्सु च ।

उद्यत्सु आगच्छत्स।

एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत एति ।

अध्वर्यादीनां गच्छतां दक्षिणतो गच्छति । नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां बजतां वेत्याश्वलायनः । अग्निसंबन्धिकर्माणि अव्यवधानेन पठितुं युक्तानि कर्मक्रमेण वा पठितुं युक्तानि व्यत्यस्तपाठे हेतुश्चिन्त्यः ।