पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fo [अ०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ११०७

तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ।

अन्तों, इत्यनन्तरं चकारोऽध्याहार्यः । तस्माद्धेतोत्रयीसाध्यतत्तकर्मरूपे यते । अन्तर्धिशब्देन कर्मविरामकाल उच्यते । तत्रापि वाग्यमनं वा भवतीत्यर्थः । तया च च्छान्दोग्यम् - ब्रह्मण्येव तावद्यज्ञो यत्रोपरतस्तस्मिन्नन्तौ ब्रह्मा वाचंयमो बुसूदिति ।

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं जपित्वा व्याहृतीश्च पुनर्वाचं यच्छति ।

प्रमत्तः प्रमादतो न्याहरेत् , वाचमुच्चारयेत् । वैष्णवी, इदं विष्णुरिति । एतामृच जपित्वा न्याहृतीयस्ताः समस्ता वा जपित्वा पुनर्वाचं नियमयेदित्यर्थः । चकारो वैष्णव्यूक्समुच्चयार्थः ।

राजनि मीयमानेऽग्नौ क्रियमाणे महावेद्यामुत्तरवेद्यां च क्रियमाणायाꣳ राजनि ह्रियमाणेऽभिषूयमाणे बहिष्पवमाने स्तूयमाने ।

अग्नौ शोल्वेन विधिनाऽग्निक्षेत्रे क्रियमाणे । अन्यत्स्पष्टम् ।

उखायाꣳ संभ्रियमाणायामुखाकर्मसु च क्रियमाणेषु ।

उखामभरणं नामोखा मृदः संभरणम् । उखाकरणानि संसर्जनादीनि कर्माणि तेषु ।

प्रवृज्यमानायां च ।

प्रवृग्यमानायामुखायाम् । चकारः पूर्वेण समुच्चयार्थः ।

अग्नौ मीयमाने ।

अग्नावनिक्षेत्रेऽदृष्टा दण्डेन मीयमाने ।

कृष्यमाणे।

अग्निक्षेत्रे लाडलेन कृष्यमाणे |

ओप्यमाने ।

अग्निक्षेत्र ओषधीनां निवपने क्रियमाणे।

चितेरुपधीयमानायाः।

सर्वामु चितिषूपधीयमानासु।

संचितकर्मसु च ।

यावन्ति संचितकर्माणि संचितमामिमृशतीत्यादीनि ।

एतेषु कर्मसु यथाकालं क्रियमाणेषु दक्षिणत आस्ते ।

उक्तान्येव विशिनष्टि यथाकालं क्रियमाणेषु स्वस्वकाले क्रियमाणेषु दक्षिणत भास्त उपविष्टो मवतीत्यर्थः ।