पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०६ सत्याषाढविरचितं श्रोतसूत्र- [१० दशमप्रश्ने- प्रवरक्याच तेऽपि वासिष्ठा एव । बमिष्ठो ब्रह्मेति दर्शपूर्णमासयोविहितं तत्प्रकृतीना- मिष्टिपशुबन्धानां च तथैव । ब्रमिष्ठ एव वासिष्ठो भवतीति केचित् । वस्तुतो ज्योति. टोम इति वचनाज्ज्योतिष्टोम एव वासिष्ठत्वनियमः, अन्यत्रानियम इति यदुक्तं तदेव समीचीनम् ।

यो वा कश्चित्स्तोमभागानधीयात् ।

यः कश्चनान्योऽपि स्तोममागानश्मिरति क्षयाय त्वा क्षयं जिन्वेत्यादीनि यषि साथै सविनियोगं च यो वेद स ब्रह्मा स्यादित्यर्थः । अत एवाऽऽपस्तम्बन विद्यादि- स्युक्तम् ।

अन्योन्यस्मै वा ऋत्विजो यज्ञसंप्रदायं चरन्ति ।

अन्योन्यस्मा अन्योन्यं परस्परमृत्तिनो यस्य यस्य यच्छास्त्रं होतॄणां याजुषहौत्र- प्रतिपादकशास्त्रमनुक्तस्थलप्रवृत्ताश्चलायनशास्त्रं चावणामाध्वर्यवप्रतिपादक शास्त्रमुगा- तृणामौद्गात्रप्रतिपादक शास्त्रमनुसृत्य परस्पर विरोधं न्यायतः परिहत्य यज्ञस्य यः संप्रदायो यज्ञसंबन्धी यः संप्रदायोऽनुष्ठानमर्यादा तां यथा चरन्ति ऋत्विजस्तथा प्रवर्तको वा ब्रह्मा मवेत्सर्वसूत्रपरिज्ञाता वा ब्रह्मा मवेदित्यर्थः ।

यावदृचाऽऽर्त्विज्यं क्रियते होतृष्वेव तावद्यज्ञो भवति ।

यावदित्यनेन होतृविषयक कार्यमुच्यते । ऋचा, अन्वेदेन ऋग्वेदशेषेण च होतृविषयकं कृत्स्नं यावत्कर्म तावता कर्मणा होतृविषयको यज्ञः संपन्नो भवति । अथवा यावत्पर्यन्तमृग्वेदेन जायमानमाविज्यकर्म तावत्पर्यन्तं होतृष्वेव यज्ञो मवति स्थितो भवतीत्यर्थः । तदीयकर्मणि न्यूनतायां यज्ञस्थितिस्तत्र न भवति न्यूनो यज्ञो मवति तदीयदोषो ब्रह्मणि बलिष्ठत्वादियथोक्तलक्षणसंपन्नत्वाभाव आगच्छतीति भावः।

यावद्यजुषाऽध्वर्युष्वेव तावत् ।

स्पष्टम् ।

यावत्साम्नोद्गातृष्वेव तावत् ।

इदमपि स्पष्टम् । एवं च त्रय्या विद्यया यज्ञः संपन्नो भवतीत्यर्थः । परिभाषाया- मप्युक्तं स त्रिभिदैविधीयत इति ।

यत्र क्व च यज्ञस्य विरतं ब्रह्मण्येव तावद्यज्ञो भवति ।

यत्र त चेत्यनेन त्रयी विद्या गृह्यते । त्रयोविद्याविहितयज्ञस्य त्रयीविद्याविहित- यज्ञे विरतं मौनमनेन मौनेनैव ब्रह्मशेव तावद्यज्ञः संपन्नो मवति । इदं च मौनमेव ब्रह्मणो मुख्य कर्मेत्यर्थः । इदं च दृष्टार्थप्रवृत्तकर्मण्येकाग्रचित्तरवाय । अत एवाऽऽ. श्वलायन:-अबहुमाषी यज्ञमना इति यज्ञमनस्त्वमाह । -